________________
श्रीविचाररत्नाकरे मध्यभागे अष्टमस्तरङ्गः]
[१८३ चेटकः श्रावक इत्यहं न तं प्रति प्रहरामि नवरं भवन्तं संरक्षामि, ततोऽसौ तद्रक्षार्थं वज्रप्रतिरूपमभेद्यकवचं कृतवान् । चमरस्तु द्वौ सङ्ग्रामौ विकुर्वितवान् , महाशिलाकण्टकः स्थमुशलं चेति, तत्र महाशिलेव कण्टकजीवभेदकत्वान्महाशिलाकण्टकः, ततश्च यत्र तृणशूलादिनाऽप्यभिहतस्याश्वहस्त्यार्महाशिलाकण्टकेनेवास्याहतस्य वेदना जायते स सङ्ग्रामे महाशिलाकण्टक एवोच्यते । 'रथमुशले' इति यत्र रथो मुशलेन युक्तः परिधावन् महाजनक्षयं कृतवान् असौ रथमुशलः । 'ओपाए' इति उपपातः संप्राप्तः ‘किं जइस्सइ' इति जयश्लाघां प्राप्स्यति पराजेष्यते अभिभविष्यति परसैन्यं परानभिभविष्यति उत नेत्यादि । श्रीनिरयावलिसूत्रवृत्तौ । इति श्रीमदकब्बरभूपालविशालचित्तालवालविवद्धितवृषरसालशालातिशालिशीलश्रीजगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते
श्रीविचाररत्नाकरे मध्यभागे श्रीनिरयावलिविचारनामाऽष्टमस्तरङ्गः ॥८॥
D:\ratan.pm5\5th proof