________________
[श्रीविचाररत्नाकरः अत्रोच्यते-एवं किलायं सङ्ग्रामः सञ्जातः, चम्पायां कूणिको राजा राज्यं चकार । तस्यानुजौ हल्ल-विहल्लाभिधानौ भ्रातरौ पितृदत्तसेचनकाभिधाने गन्धहस्तिनि समारूढौ दिव्यकुण्डलदिव्यहारदिव्यवसनविभूषितौ विलसन्तौ दृष्ट्वा पद्मावत्यभिधाना कूणिकराजस्य भार्या कदाचिद्दन्तिनोऽपहाराय तं कुणिकराजं प्रेरितवती-“कर्णविषलग्नकृतेऽयमेव कुमारो राजा तत्त्वतो न त्वं यस्येशा विलासाः" प्रज्ञाप्यमानाऽपि सा न कथञ्चिदस्यार्थस्योपरमति, तत्प्रेरितकूणिकराजेन तौ याचितौ, तौ च तद्भयाद्वैशाल्यां नगर्यां स्वकीयमातामहस्य चेटकाभिधानस्य राज्ञोऽन्तिके सहस्तिकौ सान्तःपुरपरिवारौ गतवन्तौ, कूणिकेन च दूतप्रेषणेन तौ याचितौ, न च तेन प्रेषितौ, कूणिकस्य तयोश्च तुल्यमातृकत्वात् ततः कूणिकेन भणितम्-यदि न प्रेषयसि तदा युद्धसज्जो भव, तेनापि भणितम्-'एष सज्जोऽस्मि, ततः कूणिकेन कालादयो दश स्वकीया भिन्नमातृका भ्रातरो राजानश्चेटकेन सह सङ्ग्रामायायाताः । तत्रैकेस्य त्रीणि त्रीणि हस्तिनां सहस्राणि, एवं रथानामश्वानां मनुष्याणां च प्रत्येकं तिस्रः तिस्रः कोट्य: कूणिकस्याप्येवमेव तत एकादशभागीकृतराज्यस्य कूणिकस्य कालादिभिः सह, निजेन एकादशांशेन सङ्ग्रामे काल उपागतः एतमर्थं वक्तुमाह-'तए णं से काले' इत्यादिना एनं च व्यतिकरं ज्ञात्वा चेटकेनाऽप्यष्टादश गणराजानो मेलिताः, तेषां चेटकस्य च प्रत्येकमेवमेव हस्तादिबलपरिमाणम् , ततो युद्धं सम्प्रलग्नम् , चेटकराजस्य तु प्रतिपन्नव्रतत्वेन दिनमध्ये एकमेव शरं मुञ्चत्यमोघबाणश्च सः, तत्र कूणिकसैन्ये गरुडव्यूहः, चेटकसैन्ये सागव्यूहो विरचितः । ततश्च कूणिकस्य कालो दण्डनायको निजबलान्वितो युद्धयमानस्तावद्गतो यावच्चेटकः, ततस्तेन शरनिपातेनासौ निपातितो भग्नं च कूणिकबलम् , गते च द्वे अपि बले निजं निजमावासस्थानम् । द्वितीयेऽह्नि सुकालो नाम दण्डनायको निजबलान्वितो युद्ध्यमानस्तावद्गतो यावच्चेटकः, एवं सोऽप्येकशरेण निपातितः । एवं तृतीयेऽह्नि महाकालः सोऽप्येवम् । चतुर्थेऽह्नि कृष्णकुमारः, सोऽप्येवमेव । पञ्चमे सुकृष्णः । षष्ठे महाकृष्णः । सप्तमे वीरकृष्णः । अष्टमे रामकृष्णः । नवमे पितृसेनकृष्णः । दशमे पितृमहासेनकृष्णः । चेटकेन एकैकशरेण निपातिताः । एवं दशसु दिनेषु चेटकेन विनाशिता दशापि कालादयः । एकादशे तु दिवसे चेटकजयार्थं देवताराधनाय कूणिकोऽष्टमभक्तं प्रजग्राह, ततः शक्रचमरावागतौ, ततः शक्रो बभाषे
D:\ratan.pm5\5th proof