________________
१७]
[ श्रीविचाररत्नाकरः केचिदज्ञानिन एवं प्रलपन्ति-यत्तीर्थङ्करा हि भगवन्तोऽर्हन्तोऽनुत्तरज्ञानदर्शनचारित्राधारत्वात् पूज्याः, तत्प्रतिमास्तु ज्ञानादिशून्यास्तत्किमर्थमर्चनीयाः, न हि नृपमूर्तिरन्यायिदण्डसुजनपालनादिनृपव्यापारसमर्था भवति चैतन्यशून्यत्वादिति, परं तत्तेषामनन्तसंसारकारणम् , यतो ज्ञानादिशून्यानामपि भगवत्सकथां सुरैर्भगवद्वदनुमतत्वात् , भगवतस्सम्बन्धित्वादिति चेत्तुल्यं प्रतिमायामपि । तच्चेदम्
पभू णं भंते ! चंदे जोइसिंदे जोइसराया चंदवडिसए विमाणे सभाए सुहम्माए चंदंसि सिंहासणंसि तुडिएणं सद्धिं दिव्वाइं भोगभोगाइं भुजमाणे विहरित्तए ? गोयमा ! नो इणढे समटे, ता कहं ते नो पभू चंदे जोइसिंदे जाव विहरित्तए ? गोयमा ! ता चंदस्स णं जोइसिंदस्स जोइसरन्नो चंदवडिसए विमाणे सभाए सुहम्माए माणवए चेइयखंभे वइरामएसु गोलवट्टसमुग्गएसु बहुओ जिणसकहाओ सन्निखित्ताओ चिटुंति ताओ णं चंदस्स जाव रन्नो अन्नेसिं च बहूणं जोइसियाणं देवाण य देवीण य अच्चणिज्जाओ वंदणिज्जाओ पूयणिज्जाओ सक्कारणिज्जाओ सम्माणणिज्जाओ कल्लाणं मंगलं देवयं चेइयं पज्जुवासणिज्जाओ एवं खलु नो पभू चंदे जोइसिंदे जोइसराया चंदवडिंसए विमाणे सभाए सुहम्माए तुडिएण सद्धि दिव्वाइं भोगभोगाइ भुंजमाणे विहरित्तए ॥ इति । वृत्तिर्यथा-'पभू णं भंते ! चंदे' इत्यादि, प्रश्नसूत्रं सुगमम् , भगवानाह–'नो इणढे समढे' इत्यादि नायमर्थः समर्थः-उपपन्नो न युक्तोऽयमर्थ इत्यर्थः, यथा चन्द्रावतंसकविमाने या सुधर्मा सभा तस्यामन्तःपुरेण सार्की, दिव्यान् भोगभोगान् भुञ्जानो विहरतीति, 'ता कहं ते नो पभू' इत्यादि प्रश्नसूत्रं सुगमम् , भगवानाह ‘ता चंदस्स णं' इत्यादि, चन्द्रावतंसके विमाने सुधर्मायां सभायां माणवको नाम चैत्यस्तम्भोऽस्ति, तस्मिंश्च माणवके स्तम्भे वज्रमयेषु सिक्ककेषु वज्रमया गोलाकारा वृत्ताः समुद्गकास्तेषु बहूनि जिनसक्थीनि निक्षिप्तानि तिष्ठन्ति, 'ताओ णं' इत्यादि तानि जिनसक्थीनि, इह सूत्रे स्त्रीत्वनिर्देश: प्राकृतत्वात् , चन्द्रस्य ज्योतिषेन्द्रस्य ज्योतिषराजस्यान्येषां च बहूनां ज्योतिष्काणां देवानां देवीनां च अर्चनीयानि-पुष्पादिभिः, वन्दनीयानि, स्तोतव्यानिविशिष्टैः स्तोत्रैः, पूजनीयानि-वस्त्रादिभिः, सत्कारणीयानि-आदरप्रतिपत्या, सन्माननीयानि-जिनोचितप्रतिपत्या,
१. चन्द्र./१८/१२६ सू.।
D:\ratan.pm5\5th proof