________________
श्रीविचाररत्नाकरे मध्यभागे षष्ठस्तरङ्गः]
[१७१ "अद्धकविट्ठागारा, उदयत्थमणमि कह न दीसंति । ससिसूराण विमाणा, तिरियक्खेत्तट्ठियाणं च ॥१॥ [वि.व./१०८] आउत्ताणद्धकविठ्ठागारं पीठं तदुवरिं च पासाओ ।
वट्टालेखेण तओ, समवढें दूरभावाओ" ॥२॥ [वि.व./१०९] तथा सर्वं निरवशेषं स्फटिकमयं-स्फटिकविशेषमणिमयम् , तथा अभ्युद्गता आभिमुख्येन सर्वतो विनिर्गता उत्सृता-प्रबलतया सर्वासु दिक्षु प्रसृता या प्रभा-दीप्तिः तया सितं-शुक्लं अभ्युद्गतोत्सितप्रभासितम् , तथा विविधा-अनेकप्रकारा मणयः चन्द्रकान्तादयो रत्नानि-कर्केतनादीनि तेषां भक्तयो-विच्छित्तिविशेषास्ताभिश्चित्रं-अनेकरूपवत् आश्चर्यवद्वा विविधमणिरत्नचित्रम् , वातोद्भुता-वातकम्पिता विजयो-अभ्युदयस्तत्सूचिका वैजयन्त्यभिधाना या पताका अथवा विजया इति वैजयन्तीनां पार्श्वकर्णिका उच्यन्ते तत्प्रधाना वैजयन्त्यो विजयवैजयन्त्यः पताका:-ता एव विजयवर्जिता वैजयन्त्यः छत्रातिच्छत्राणि च-उपर्युपरि स्थितातपत्राणि तैः कलितं ततो वातोद्भुतविजयवैजयन्तीपताकाछत्रातिच्छत्रकलितं तुझं-उच्चमत एव 'गगणतलमुलिहंतसिहरे'त्ति गगनतलंअम्बरतलमनुलिखत्-अभिलङ्घयच्छिखरं यस्य तद् गगनतलानुलिखच्छिखरम् , तथा जालानि-जालकानि तानि च भवनभित्तिषु लोके प्रतीतानि तदन्तरेषु विशिष्टशोभानिमित्तं रत्नानि यत्र तज्जालान्तररत्नम् , सूत्रे चात्र प्रथमैकवचनलोपो द्रष्टव्यः. तथा पञ्जरादुन्मीलितमिव बहिष्कृतामिव पञ्जरोन्मीलितम् , यथा हि किल किमपि वस्तु पञ्जरात्वंशादिमयप्रच्छादनविशेषाबहिष्कृतमत्यन्तमविनष्टच्छायात्वाच्छो भते एवं तदपि विमानमिति भावः, तथा मणिकनकानां सम्बन्धिनी स्तूपिका-शिखरं यस्य तन्मणिकनकस्तूपिकाकम् , तथा विकसितानि यानि शतपत्राणि पुण्डरीकाणि च द्वारादौ प्रतिकृत्वेन स्थितानि तिलकाश्च भित्त्यादिषु पुण्ड्राणि रत्नमयाश्चार्द्धचन्द्रा द्वारादिषु तैश्चित्रं विकसितशतपत्रपुण्डरीकतिलकार्द्धचन्द्रचित्रम् , तथाऽन्तर्बहिश्च श्लक्ष्णं-मसृणमित्यर्थः, तथा तपनीयं-सुवर्णविशेषस्तन्मय्या वालुकायाः प्रस्तट:-प्रतरो यत्र तत्तपनीयवालुकाप्रस्तटम् , तथा सुखस्पर्श शुभस्पर्शं शुभस्पर्शं वा, तथा सश्रीकाणि-सशोभानि रूपाणिनरयुग्मादीनि यत्र तत्सश्रीकरूपम् , तथा प्रासादीयं-मनःप्रसादहेतुः, अत एव दर्शनीयंद्रष्टुं योग्यम् , तद्दर्शनेन तृप्तेरसम्भवात् , तथा प्रतिविशिष्टं-असाधारणरूपं यस्य तत्तथा । इतिश्रीचन्द्रप्रज्ञप्त्यष्टादशप्राभृतसूत्रवृत्तौ ४८ पत्रे ॥१॥
D:\ratan.pm5\5th proof