________________
श्रीविचाररत्नाकरे मध्यभागे
॥ षष्ठस्तरङ्गः ॥
सर्वज्ञभाषितार्थाय, समर्थाय तमोव्यये ।
अव्ययाय नमो नित्यं, सिद्धान्ताय जिनेशितुः ॥१॥ अथ परिपाट्यायाताः श्रीचन्द्रप्रज्ञप्तिविचारा यथा-तत्र चन्द्रविमानसंस्थानादिजिज्ञासया लिख्यते
तो चंदविमाणेणं किं संठिए पण्णत्ते ? ता अद्धकविठ्ठगसंठाणसंठिए सव्वफलियामए अब्भुग्गयमूसियपहसिए । विविहमणिरयणभत्तिचित्ते वाऊद्धयविजयवेजयंतीपडागाछत्ताइच्छत्तकलिए तुंगे गगणतलमणुलिहंतसिहरे जालंतररयण पंजरुम्मिलिय व्व मणिकणगथूभियागे वियसियसयवत्तपुंडरीयतिलगरयणड्ढचंदचित्ते अंतो बहिं च सण्हे तवणिज्जवालुगापत्थडे सुहफासे सस्सिरीयरूवे पासाइए दरसणिज्जे अभिरूवे पडिरूवे ॥ इति । वृत्तिर्यथा-'ता चंदविमाणे णं' इत्यादि, संस्थानविषयं प्रश्नसूत्रं सुगमम् , भगवानाह–'ता अद्धकविट्ठ' इत्यादि, उत्तानीकृतमर्द्धमात्रं कपित्थं तस्येव यत् संस्थानं तेन संस्थितं अर्द्धकपित्थसंस्थानसंस्थितम् , आहयदि चन्द्रविमानमुत्तानीकृतार्द्धमात्रकपित्थफलसंस्थानसंस्थितं तत उदयकालेऽस्तमनकाले वा यदि वा तिर्यग्परिभ्रमत्पौर्णमास्यां कस्मात्तदर्धकपित्थफलाकारं नोपलभ्यते कामं शिरस उपरि वर्तमानं वर्तुलमुपलभ्यते?अर्द्धकपित्थस्य शिरस उपरि दूरमवस्थापितस्य परभागादर्शनतो वर्तुलतया दृश्यमानत्वादुच्यते इहार्द्धकपित्थफलाकारं चन्द्रविमानं न सामस्त्येन प्रतिपत्तव्यं किं तु तस्य चन्द्रविमानस्य पीठं, तस्य च पीठस्योपरि चन्द्रदेवस्य ज्योतिश्चक्रराजस्य प्रासादस्तथा कथञ्चनापि व्यवस्थितो यथा पीठेन सह भूयान् वर्तुल आकरो भवति, स च दूरभावादेकान्ततः समवृत्ततया जनानां प्रतिभासते ततो न कश्चिद्दोषः, न चैतत् स्वमनीषिकायां विजृम्भितं, यतः एतदेव श्रीजिनभद्रगणिक्षमाश्रमणेन विशेषणवत्यामाक्षेपपुरस्सरमुक्तम्
१. चन्द्र./१८/१२२ सू.।