________________
श्रीविचाररत्नाकरे मध्यभागे पञ्चमस्तरङ्गः]
[१६९ उत्तरार्द्धभरते वर्षे ऋषभकूटो नाम्ना पर्वतः प्रज्ञप्तः, अष्टौ योजनान्यूर्वोच्चत्वेन, द्वे योजने उद्वेधेन-भूमिप्रवेशेन, उच्चत्वचतुर्थांशस्य भूम्यवगाढत्वात् , अष्टानां च चतुर्थांशे द्वयोरेव लाभात् , मूलमध्यान्तेषु क्रमादष्टषट्चत्वारि योजनानि विष्कम्भेन-विस्तरेण उपलक्षणत्वादायामेनापि, समवृत्तस्यायामविष्कम्भयोस्तुल्यत्वादिति, तथा मूलमध्यान्तेषु पञ्चविंशतिरष्टादश द्वादश च योजनानि सातिरेकाणि परिक्षेपेण-परिधिना, अथास्य पाठान्तरं वाचनाभेदस्तद्गतपरिमाणान्तरमाह-मूले द्वादश योजनानि विष्कम्भेन मध्येऽष्टयोजनानि विष्कम्भेन, उपरि चत्वारि योजनानि विष्कम्भेन, अत्रापि विष्कम्भायामतः साधिकत्रिगुणं मूलमध्यान्तपरिधिमानं सूत्रोक्तं सुबोधम् । अत्राह पर:एकस्य वस्तुनो विष्कम्भादि परिमाणे द्वैरूप्यासम्भवेन प्रस्तुतग्रन्थस्य च सातिशयस्थविरप्रणीतत्वेन कथं नान्यतरनिर्णयः ? यदेकस्यापि ऋषभकूटपर्वतस्य मूलादावष्टादियोजनविस्तृतत्वादि पुनस्तत्रैवास्य द्वादशयोजनविस्तृतत्वादीति, सत्यं, जिनभट्टारकाणां सर्वेषां क्षायिकज्ञानवतामेकमेव मतं मूलतः, पश्चात्तु कालान्तरेण विस्मृत्यादिनाऽयं वाचनाभेदः, यदुक्तं श्रीमलयगिरिसूरिभिर्कोतिष्करण्डकवृत्तौ-"इह स्कन्दिलाचार्यप्रवृत्तौ दुःषमानुभावतो दुर्भिक्षप्रवृत्त्या साधूनां पठनगुणनादिकं सर्वमप्यनशत् । ततो दुर्भिक्षातिक्रमे, सुभिक्षप्रवृत्तौ, द्वयोः सङ्घमेलापकोऽभवत् , तद्यथा-एको वल्लभ्यामेको मथुरायाम् , तत्र सूत्रार्थसङ्घट्टने परस्परं वाचनाभेदो जातः, विस्मृतयोहि सूत्रार्थयोः स्मृत्वा स्मृत्वा सङ्घट्टने भवत्यवश्यं वाचनाभेदः" [ ] इत्यादि । ततोऽत्रापि दुष्करोऽन्यतरनिर्णयः, द्वयोः पक्षयोरुपस्थितयोरनतिशायिज्ञानिभिरनभिनिविष्टमतिभिः प्रवचनाशातनाभीरुभिः पुण्यपुरुषैरिति: न काचिदनुपपत्ति । इति जम्बूद्वीपप्रज्ञप्तिसूत्रवृत्तौ प्रथमवक्षस्कारे ३८७ प्रतौ ६६ पत्रे ॥२॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवद्धितवृषरसालशालातिशालिशीलश्रीजगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे मध्यभागे श्रीजम्बूद्वीपप्रज्ञप्तिविचारनामा पञ्चमस्तरङ्गः ॥५॥
D:\ratan.pm5\5th proof