________________
८]
[श्रीविचाररत्नाकरः अत्र पञ्चवस्तुकसूत्रे दशवर्षपर्यायस्य साधोभगवत्यङ्गप्रदानेऽवसरस्य प्रतिपादनात् षष्ठाङ्गतया ज्ञाताधर्मकथाङ्गस्य प्रदाने तदनन्तरमवसरः, कारणविशेषे गुर्वाज्ञावशादर्वागपि, ततस्तदुपाङ्गत्वादस्य तदनन्तरमवसरः इति सम्भाव्यते । योगविधानसामाचार्यामपि अङ्गयोगोद्वहनानन्तरमेवोपाङ्गयोगोद्वहनस्य विधिप्राप्तत्वात् । इति जम्बूद्वीपप्रज्ञप्तिसूत्रवृत्तौ ३८७ प्रतौ प्रथमवक्षस्कारके ३ पत्रे ॥१॥
केचिच्च क्वचिन्मतान्तरादि दृष्ट्वा अहो इयं स्वकपोलकल्पना, अन्यथा सर्वज्ञप्रणीतेऽर्थे कुतो मतान्तरता ? इत्याद्यसद्वाक्यैर्विप्रतारयन्ति लोकान् परं तदपकर्णनीयं कारणविशेषवशात् सिद्धान्तेऽपि मतान्तरदर्शनात् । स सिद्धान्तः कारणविशेषश्च लिख्यते
कहि णं भंते ! जंबुद्दीवे दीवे उत्तरड्डभरहे वासे उसभकूडे नामं पव्वए पन्नत्ते ? गोयमा ! गंगाकुंडस्स पच्चत्थिमेणं सिंधुकुंडस्स पुरच्छिमेणं चुल्लहिमवंतस्स वासहरपव्वयस्स दाहिणिल्ले णितंबे, एत्थ णं जंबुद्दीवे दीवे उत्तरड्डभरहे वासे उसभकूडे णामं पव्वए पन्नत्ते, अट्ट जोयणाइं उर्दू उच्चत्तेणं, दो जोयणाइं उव्वेहेणं, मूले अट्ठ जोअणाइं विक्खंभेणं, मज्झे छ जोअणाई विक्खंभेणं, उवरिं चत्तारि जोयणाई विक्खंभेणं, मूले साइरेगाइं पणवीसं जोयणाइं परिक्खेवेणं, मज्झे साइरेगाइं अट्ठारस जोयणाइं परिक्खेवेणं, उवरिं साइरेगाई दुवालस जोयणाई परिक्खेवेणं । पाठान्तरं-मूले बारस जोअणाइं विक्खंभेणं, मज्झे अट्ठ जोयणाई विक्खंभेणं, उवरिं साइरेगाई दुवालस जोयणाई परिक्खेवेणं । पाठान्तरं-मूले बारस जोअणाई विक्खंभेणं, मज्झे अट्ठ जोयणाई विक्खंभेणं, उप्पिं चत्तारि जोयणाई विक्खंभेणं, मूले साइरेगाइं सत्ततीसं जोयणाई परिक्खेवेणं, मज्झे साइरेगाई पणवीसं जोयणाइं परिक्खेवेणं, उप्पिं साइरेगाइं बारस जोयणाइं परिक्खेवेणं, मूले विच्छिन्ने मज्झे संखित्ते उप्पि तणुए गोपुच्छसंठाणसंठिए, सव्वजंबूणयमए अच्छे सण्हे जाव पडिरूवे ॥ इति । वृत्तिर्यथा 'कहि णं' इत्यादि, क्व भदन्त ! जम्बूद्वीपे द्वीपे उत्तरार्द्धभरते वर्षे ऋषभकूटो नाम्ना पर्वतः प्रज्ञप्तः ? भगवानाह-गौतम ! गङ्गाकुण्डस्य यत्र हिमवतो गङ्गा निपतति तद् गङ्गाकुण्डं, तस्य पश्चिमायाम् , यत्र तु सिन्धुनिपतति तत् सिन्धुकुण्डं तस्य पूर्वस्यां, क्षुल्लहिमवतो वर्षधरस्य दाक्षिण्यात्ये नितम्बे, सामीप्यकसप्तम्या नितम्बासन्ने इत्यर्थः, अत्र प्रदेशे जम्बूद्वीपे द्वीपे
१. जम्बू./वक्ष.१/२० सू. ।
D:\ratan.pm5\5th proof