________________
श्रीविचाररत्नाकरे मध्यभागे
॥ पञ्चमस्तरङ्गः ॥ यस्यानुभावेन जगत् समस्तं, शस्तप्रशस्तं वरिवर्ति नित्यम् ।
तं जैनधर्मं सततं श्रयामो, व्यामोहवल्लीगजराजशावम् ॥१॥
अथ क्रमायाताः श्रीजम्बूद्वीपप्रज्ञप्तिविचारा लिख्यन्ते-तत्र यावद्वर्षपर्यायस्य साधोर्यदाचारादिश्रुतमध्याप्यं तल्लिख्यते
योगो-अवसरस्ततः प्रस्तुतोपाङ्गस्य दाने कोऽवसर: ? इति, उच्यते-उपाङ्गस्याङ्गार्थानुवादकतयाऽङ्गसामीप्येन वर्तमानाद्य एवैतदीयाङ्गस्यावसरः स एवास्यापीति, तत्रावसरसूचिका इमा गाथा:
१"तिवरिसपरियायस्स उ, आयारपकप्पनाममज्झयणं ।
चउवरिसस्स य सम्मं, सूअगडं नाम अंगं ति ॥१॥ [ जम्बू./१-१३.] दसकप्पव्ववहारा, संवच्छरपणगदिक्खियस्सेव । ठाणं समवाओ वि य, अंगेते अट्ठवासस्स ॥२॥ [ जम्बू./१-१वृ.] दसवासस्स विवाहो, एगारसवासगस्स य इमे उ। खुड्डिअविमाणमाई, अज्झयणा पंच नायव्वा ॥३॥ [जम्बू./१-१३.] बारसवासस्स तहा, अरुणोवायाइ पंच अज्झयणा । तेरसवासस्स तहा, उट्ठाणसुआइया चउरो ॥४॥ [ जम्बू./१-१७.] चउदसवासस्स तहा, आसीविसभावणं जिणा बिंति । पन्नरसवासगस्स य, दिट्ठीविसभावणं तह य ॥५॥ [ जम्बू./१-१वृ.] सोलसवासाइसु य, एगुत्तरवुड्डिएसु जहसंखं । चारणभावणमहसुविण-भावणा तेअगिणिसग्गा ॥६॥ [ जम्बू./१-१वृ.] एगूणवीसगस्स उ, दिट्ठिवाओ दुवालसं अंगं । संपुण्णवीसवरिसो, अणुवाई सव्वसुत्तस्स" ॥७॥ [ जम्बू./१-१७.] इति ।
१. पञ्चवस्तुकसूत्रे ५८२तः ५८८ इमा गाथाः ।
D:\ratan.pm5\5th proof