________________
[ १७३
श्रीविचाररत्नाकरे मध्यभागे षष्ठस्तरङ्गः ]
कल्याणं–कल्याणहेतुः, मङ्गलं - दुरितोपशमहेतुः दैवतं - परमदेवता, चैत्यं - इष्टदेवताप्रतिमेत्येवं पर्युपासनीयानि तत एवं अनेन प्रकारेण खलु निश्चितं न प्रभुरित्यादि सुगमम् । इति श्रीचन्द्रप्रज्ञप्त्यष्टादशप्राभृतसूत्रवृत्तौ ४४ पत्रे ॥२॥
इति श्रीमदकब्बरभूपालविशालचित्तालवालविवद्धितवृषरसालशालातिशालिशीलश्रीजगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्त्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे मध्यभागे श्रीचन्द्रप्रज्ञप्तिविचारनामा षष्ठस्तरङ्गः ॥६॥
D:\ratan.pm5\5th proof