________________
४]
[श्रीविचाररत्नाकरः भूमिमवलोक्य उल्लङ्घनप्रलङ्घनादिकं कायव्यापारं कुर्यादित्यत्रैवं त्रसरक्षैव कृता भवति, न तु जलाद्याकुले मार्गे स्थावराणामिति त्रसग्रहणमित्यलं प्रसङ्गेन वृद्धवाक्यमेव प्रमाणम् । केवलिनामुल्लङ्घनप्रलङ्घनादिव्यापारविषये सूत्रवृत्तिर्यथा
से णं भंते ! तहा समुग्घायगए सिज्झति बुज्झइ मुच्चति परिनिव्वाति सव्वदुक्खाणमंतं करोति ? गोयमा ! नो इणढे समढे, से णं ततो पडिनियत्तति पडिनियतित्ता ततो पच्छा मणजोगं पि जुंजति वयजोगं पि जुंजति कायजोगं पि गँजति ॥ इति । वृत्तिर्यथा-'से णं भंते !' इत्यादि, स भदन्त ! केवली तथा दण्डकपाटादिक्रमेण समुद्घातं गतः सन् सिद्धयतिनिष्ठितार्थो भवति, स च 'वर्तमानसामीप्ये वर्तमानवद्वा' (३-३-१२१ पाणिनौ) इति वचनात् सेत्स्यन्नपि व्यवहारत उच्यते । तत आह-बुद्धयते-अवगच्छति केवलज्ञानेन यथाऽहं निश्चयतो निष्ठितार्थो भविष्यामि निःशेषकर्मांशापगमतः तत आह-मुच्यतेऽशेषकर्मांशैः इति गम्यते, मुच्यमानश्च कर्माणुवेदनापरितापरहितो भवति, तत आह–परिनिर्वाति-सामस्त्येन शीतीभवति । समस्तमेतदेकेन पर्यायेण स्पष्टयति सर्वदुःखानामन्तं करोतीति, भगवानाह-गौतम ! नायमर्थः समर्थः-नायमर्थः सङ्गतो यत्समुद्धातं गतः सन् सर्वदुःखानामन्तं-करोतीति, योगनिरोधस्याद्याप्यकृत्वात् , सयोगस्य च वक्ष्यमाणयुक्त्या सिद्ध्यभावादिति भावः, ततः किं करोति? अत आह–'से णं' इत्यादि, सोऽधिकृतसमुद्धातगतः णमिति वाक्यालङ्कारे, ततः समुद्धातात् प्रतिनिवर्त्तते, प्रतिनिवर्त्य च ततः प्रतिनिवर्त्तनात् पश्चादनन्तरं मनोयोगमपि वाग्योगमपि काययोगमपि युनक्ति-व्यापारयति, यतः स भगवान् भवधारणीयकर्मसु नामगोत्रवेदनीयेषु अचिन्त्यमाहात्म्यसमुद्धातवशतः प्रभूतेष्वायुषा सह समीकृतेष्वपि अन्तर्मुहूर्तभाविपरमपदत्वतस्तस्मिन् काले यद्यनुत्तरोपपातिकादिना देवेन मनसा पृच्छ्यते तहि प्रश्नव्याकरणाय मनःपुद्गालान् गृहीत्वा मनोयोगं युनक्ति, तमपि सत्यं असत्यामृषारूपं वा, मनुष्यादिना च पृष्टोऽपृष्टो वा कार्यवशतो वाग्पुद्गलान् गृहीत्वा वाग्योगं युनक्ति, तमपि सत्यं असत्यामृषा वा न शेषान् वाङ्मनसोर्योगान् , क्षीणरागादित्वात् । आगमनादौ चौदारिककाययोगम् , तथा हि-भगवान् कार्यवशतः कुतश्चित् स्थानाद्विवक्षिते स्थाने आगच्छेत् यदि वा क्वापि गच्छेत् अथवा तिष्ठेत् ऊर्ध्वस्थानेन वाऽवतिष्ठेत् निषीदेत् वा तताविधश्रमापनयनाय त्वग्वर्त्तनं वा कुर्यात् , अथवा विवक्षिते स्थाने तथाविध
१. प्रज्ञा./३६/३२०सू.।
D:\ratan.pm5\5th proof