________________
श्रीविचाररत्नाकरे मध्यभागे चतुर्थस्तरङ्गः]
[१६५ सम्पातिमसत्त्वाकुलां भूमिमवलोक्य तत्परिहाराय जन्तुरक्षानिमित्तमुल्लङ्घनं प्रलङ्घनं वा कुर्यात् , तत्र सहजात् पादविक्षेपान्मनागधिकतर: पादविक्षेपः उल्लङ्घनं, स एवाधिकतर: प्रलङ्घनं, यदि वा प्रातिहारिकपीठफलकशय्यासंस्तारकं प्रत्यर्पयेत्-यस्मादानीतं तस्मै समर्पयेत् । इह भगवताऽऽर्यश्यामेन प्रातिहारिकपीठफलकादीनां प्रत्यर्पणमेवोक्तं ततऽवसीयते नियमादन्तर्मुहूर्तावशेषायुष्क एवावर्जीकरणादिकमारभते न प्रभूतविशेषायुष्कः, अन्यथा ग्रहणस्यापि सम्भवात्तदप्युपादीयेत एतेन, यदाहुरेके - जघन्यतोऽन्तर्मुहूर्तावशेषे समुद्धातमारभते उत्कर्षतः षट्सु मासेषु शेषेषु' [ ] इति तदपास्तं द्रष्टव्यम् , षट्सु मासेषु कदाचिदपान्तराले वर्षाकालसम्भवात्तन्निमित्तं पीठफलकादीनामादानमप्युपपद्येत न च तत्सूत्रसम्मतमिति तत्प्ररूपणमुत्सूत्रमवसेयम् । इति प्रज्ञापनाषट्त्रिंशत्तमपदसूत्रवृत्तौ ४०० प्रतौ ३९३ पत्रे ॥१०॥
अपरं च यदि सयोगिकेवलिनः केवलयोगप्रत्ययं विराधनामात्रमपि न स्यात्तर्हि तत्र निश्चयतः सर्वसंवररूपं सर्वोत्तमं चारित्रं न भवतीति को हेतुः ? तच्च शैलेश्यवस्थायां योगनिरोधे सत्येव सर्वसंवररूपं सर्वोत्तमं चारित्रमुक्तम् । तथा हि
ईसिं हस्सपंचक्खरुच्चारणद्धाए असंखेज्जसमइयं अंतोमुहुत्तियं सेलेसि पडिवज्जइ ॥ इति ॥ वृत्तिर्यथा-'ईसिं' ति स्तोककालं शैलेशी प्रतिपद्यते इति सम्बन्धः, कियता कालेन विशिष्टां इत्यत आह-हस्वपञ्चाक्षरोच्चारणाद्धया, किमुक्तं भवति ? नातिद्रुतं नातिविलम्बितं किं तु मध्यमेन प्रकारेण यावता कालेन डबणनम इत्येवंरूपाणि पञ्चाक्षराण्युच्चार्यन्ते तावता कालेन विशिष्टामिति, एतावान् कालः किं समयप्रमाणः ? इति निरूपणार्थमाह-असङ्ख्येयसामयिकां-असङ्ख्येयसमयप्रमाणां, यच्चासङ्ख्येयसमयप्रमाणं तच्च जघन्यतोऽप्यन्तर्मुहूर्तप्रमाणं तत एषाऽप्यन्तर्मुहूर्तप्रमाणेति ख्यापनायाह-आन्तौहूर्तिकी शैलेशीमिति, शीलं-चारित्रं तच्चेह निश्चयतः सर्वसंवसररूपं तद् ग्राह्यं तस्यैव सर्वोत्तमत्वात् , तस्येश: शीलेशः, तस्य याऽवस्था सा शैलेशी, तां प्रतिपद्यते, तदानीं च ध्यानं ध्यायति व्यवच्छिन्नक्रियमप्रतिपाति, उक्तं च
"सीलं व समाहाणं, निच्छयओ सव्वसंवरो सो य । तस्सेसो सीलेसो, सेलेसी होइ तदवत्था ॥१॥ [वि.भा./३०६७]
१. प्रज्ञा./३६/६२१सू.।
D:\ratan.pm5\5th proof