________________
श्रीविचाररत्नाकरे मध्यभागे चतुर्थस्तरङ्गः]
[१६३ वि एवं चेव, णवरं उढे जाव सयाई विमाणाइं ॥ इति । वृत्तिर्यथा-आनतदेवस्यापि जघन्यतोऽङ्गलासङ्ख्येयभागप्रमाणा तैजसशरीरावगाहना, नन्वानतादयो देवा मनुष्येष्वेवोत्पद्यन्ते मनुष्याश्च मनुष्यक्षेत्र एवेति कथमङ्गुलासङ्ख्येयभागप्रमाणा ? उच्यते-इह पूर्व(भव)सम्बन्धिनीं मनुष्यस्त्रियमन्येन मनुष्येणोपभुक्तामानतदेवः कश्चनाप्यवधिज्ञानत उपलभ्यासन्नमृत्युतया विपरीतभावत्वात् सत्त्वचरितवैचित्र्यात् कर्मगतेरचिन्त्यत्वात् कामवृत्तेर्मलिनत्वाच्च । उक्तं च
"सत्त्वानां चरितं चित्रं, विचित्रा कर्मणां गतिः ।
मलिनत्वं च कामानां, वृत्तिः पर्यन्तदारुणा" ॥१॥ [ ] इति गाढानुरागादिहागत्य नकुलोपगूढां तां परिष्वज्य तदवाच्यप्रदेशे स्वावाच्यप्रदेशं प्रक्षिप्यातीव मूर्छितः स्वायु:क्षयात् कालं कृत्वा यदा तस्या एव गर्भे मनुष्यबीजं मनुष्यत्वेनोत्पद्यते, मनुष्यबीजं च जघन्यतोऽन्तर्मुहूर्तं उत्कृष्टतो द्वादश मुहूर्तान् यावदवतिष्ठते, उक्तं च"मणुस्स बीए णं भंते ! कालतो केवच्चिरं होइ ? गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं बारस मुहुत्ता' [ ] इति । ततो द्वादशमुहूर्ताभ्यन्तरे उपभुक्तां परिष्वज्य मृतस्य तत्रैवोत्पत्तिर्मनुष्यत्वे द्रष्टव्या, उत्कर्षतोऽधो यावदधोलौकिका ग्रामाः, तिर्यग् यावन्मनुष्यक्षेत्रं, उर्ध्वं यावदच्युतकल्पस्तावदवसेया, कथं इति चेत् ? उच्यते-इह यदाऽऽनतदेवः कस्याप्यन्यस्य देवस्य निश्रया अच्युतकल्पं गतो भवति, स च तत्र गतः सन् कालं कृत्वाऽधोलौकिकग्रामेषु यदि वा मनुष्यक्षेत्रपर्यन्ते मनुष्यत्वेनोत्पद्यते तदा लभ्यते । इति श्रीप्रज्ञापनैकविंशतितमपदसूत्रवृत्तौ ५३२ प्रतौ ४०१ पत्रे ॥९॥
अथ य: केवलिशरीराज्जीवविराधनामवश्यम्भाविनीमपि सर्वथा न स्वीकुरुते तं प्रत्युच्यते-अरे भद्रक ! त्वया तावदुच्यते केवलि हि श्वासोच्छासनिमेषोन्मेषादिकमपि तत्रैव कुरुते यत्राचित्ता वायुकायादयः स्युः, यद्ययमेवं नियमः स्यात्तदा मार्गेऽपि निर्जीवे एव गच्छत्ययमपि नियम: स्यात् तथा च न दृश्यते, यतः केवली मार्गे गच्छंस्त्रसाकुलां भूमिमवलोक्य जन्तुरक्षानिमित्तमुल्लङ्घनप्रलङ्घनादिकमपि करोतीति शास्त्रेऽभिहितम् , ततोऽवसीयतेऽचित्तवायुकायादावेव श्वासोच्छासादिकं कुर्यादयमपि नियमो नास्ति, निर्जीवे एव अचित्तजल एव मार्गे गच्छत्ययमपि नियमोऽनैकान्तिक एवासैद्धान्तिकश्च, केवलं काययोगव्यापारपाल्यजीवरक्षायै उल्लङ्घनप्रलङ्घनादिकं कायव्यापारं करोति । अशक्यरक्षांस्तु तान् जानन्नपि चलोपकरणतया किं करोतु ? किञ्च-त्रसाकुलां
D:\ratan.pm5\5th proof