________________
[श्रीविचाररत्नाकरः पितानीत्यर्थः, प्रस्थापितानि-मनुष्यगतिपञ्चेन्द्रियजातित्रसबादरपर्याप्तसुभगादेययशःकीर्त्तिनामसहोदयत्वेन व्ववस्थापितानीति भावः, निविष्टानि-तीव्रानुभावजनकतया स्थितानि, अभिनिविष्टानि-विशिष्टविशिष्टतराध्यवसायभावतोऽतितीव्रतमानुभावजनकतया व्यवस्थितानि, अभिसमन्वागतानि-उदयाभिमुखीभूतानि, उदीर्णानिविपाकोदयमागतानि, नोपशान्तानि-न सर्वथाऽभावमापन्नानि निकाचिताद्यवस्थोद्रेकरहितानि वा न भवन्ति, शेषं समस्तमपि कण्ठ्यम् । एवं शर्कराप्रभावालुकाप्रभाविषये अपि सूत्रे वक्तव्ये । पङ्कप्रभापृथिवीनैरयिकः ततोऽनन्तरमुद्धृतः तीर्थकरत्वं न लभते अन्तक्रियां पुनः कुर्यात् , धूमप्रभापृथिवीनैरयिकोऽन्तक्रियामपि न करोति सर्वविरतिं पुनर्लभते । तमःप्रभापृथिवीनैरयिकः सर्वविरतिमपि न लभते विरताविरतिंदेशविरतिं पुनर्लभते । अधःसप्तमपृथिवीनैरयिकस्तामपि देशविरतिं न लभते यदि परं सम्यक्त्वमानं लभते । असुरादयो यावद्वनस्पतिकाया अननन्तरमुद्धृतास्तीर्थकरत्वं न लभन्ते, अन्तक्रियां पुनः कुर्युः, स वसुदेवचरिते पुनर्नागकुमारेभ्योऽप्युद्धृतोऽनन्तरमैरावतक्षेत्रेऽस्यामेवावसर्पिण्यां चतविंशतितमस्तीर्थकर उपदर्शितः, तदत्र तत्त्वं केवलिनो विदन्ति । तेजोवायवोऽनन्तरमुद्धता अन्तक्रियामपि न कुर्वन्ति मनुष्येषु तेषामानन्तर्येणोत्पादाभावात् , अपि च ते तिर्यसूत्पन्नाः केवलिप्रज्ञप्तं धर्मं श्रवणतया लभेरन् , न तु बोधत इत्युक्तं प्राक् । वनस्पतिकायिका अनन्तरमुद्धृतास्तीर्थकरत्वं न लभन्ते, अन्तक्रियां पुनः कुर्युः । द्वित्रिचतुरिन्द्रिया अनन्तरमुद्धृतास्तामपि न कुर्वन्ति, मन:पर्यवज्ञानं पुनरुत्पादयेयुः तिर्यक्पञ्चेन्द्रियमनुष्यव्यन्तरज्योतिष्का अनन्तरमुद्धृतास्तीर्थकरत्वं न लभन्ते अन्तक्रियां पुनः कुर्युः । सौधर्मादयः सर्वार्थसिद्धपर्यवसाना (रत्नप्रभा)नैरयिकवद्वक्तव्याः । इति प्रज्ञापनायां विंशतितमपदसूत्रवृत्तौ ५३२ प्रतौ ३८० पत्रे ॥८॥
अथानतदेवस्य तैजसशरीरावगाहना यथाऽङ्गलासङ्ख्येयभागप्रमाणमात्रा भवति, तथा लिख्यते
आणयदेवस्स णं भंते ! मारणंतियसमुग्घाएणं समोहयस्स तेयासरीरस्स के महालिया सरीरोगाहणा पन्नत्ता ? गोयमा ! सरीरप्पमाणमेत्ता विक्खंभबाहल्लेणं आयामेणं जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं जाव अहोलोइयगामा तिरियं जाव मणुस्सखेत्ते उड्डूं जाव अच्चुओ कप्पो । एवं आरणदेवस्स अच्चुदेवस्स
१. प्रज्ञा./२१/५२१सू.।
D:\ratan.pm5\5th proof