________________
श्रीविचाररत्नाकरे मध्यभागे चतुर्थस्तरङ्गः]
[१५९ तेऽसङ्ख्येयाः, तत्रापि कालतः परिमाणचिन्तायां प्रति समयमेकैकमनुष्यापहारे सामस्त्येनासङ्ख्येयाभिरुत्सर्पिण्यवसर्पिणीभिरपहियन्ते, क्षेत्रतो रूपे प्रक्षिप्ते मनुष्यैरेका श्रेणिः परिपूर्णाऽपह्रियते, किमुक्तं भवति ? उत्कृष्टपदे ये मनुष्यास्तेषु मध्ये एकस्मिन्नसत्कल्पनया रूपे प्रक्षिप्ते सकलाऽपि श्रेणिरेकाऽपहियते, तस्याश्च श्रेणेः क्षेत्रकालाभ्यामपहारमार्गणा कालतस्तावदसङ्ख्येयाभिरुत्सर्पिणण्यवसर्पिणीभिः क्षेत्रतोऽङ्गलप्रथमवर्गमूलं तृतीयवर्गमूलप्रत्युत्पन्नम् , किमुक्तं भवति ? अङ्गलमात्रक्षेत्रप्रदेशराशिरसत्कल्पनया षट्पञ्चाशदधिकषोडशलक्षणं ततस्तृतीयवर्गमूलेनासत्कल्पनया द्विकलक्षणेन गुण्यते, गुणिते च सति यावान् प्रदेशराशिर्भवति असत्कल्पनया द्वात्रिंशदेतावत्प्रमाणैः खण्डैरपहियमाणा यावत् श्रेणिनिष्ठामियति तावन्मनुष्या अपि निष्ठामुपयान्ति, आह-कथमेकस्याः श्रेणेर्यथोक्तप्रमाणैः खण्डैरपहियमाणाया असङ्ख्येया उत्सर्पिण्यवसर्पिण्यो लगन्ति ? उच्यते-क्षेत्रस्यातिसूक्ष्मत्वात् , उक्तं च सूत्रेऽपि
"सुहुमो य होइ कालो, तत्तो सुहुमयरं हवइ खेत्तं ।
अंगुलसेढीमेत्ते, उसप्पिणिओ असंखिज्जा" ॥१॥ [ प्रज्ञा./१२-४४०३.] इति प्रज्ञापनाद्वादशपदसूत्रवृत्तौ ४४० प्रतौ २१५ पत्रे ॥६॥
अथादर्शादौ स्वच्छे वस्तुनि यत्प्रतिबिम्बं दृश्यते तत्किात्मकं ? इति निर्णयो लिख्यते
अद्दायं पेहमाणे मणसे किं अदायं पेहति अत्ताणं पेहइ पलिभागं पेहइ ? गोयमा ! अद्दायं पेहति नो अप्पाणं पेहति पलिभागं पेहति, एवं एतेणं अभिलावेणं असिं मणिं दुद्धं पाणिं तेल्लं फाणियं वसं ॥ इति ॥ वृत्तिर्यथा-'अदायं पेहमाणे' इत्यादि, 'अद्दायं' इति आदर्श 'पेहमाणे' इति प्रेक्ष्यमाणो मनुष्यः किमादर्श प्रेक्ष्यते आहोस्विदात्मानम् ? अत्रात्मशब्देन शरीरमभिगृह्यते, उत 'पलिभागं' इति प्रतिभागंप्रतिबिम्बम् ? भगवानाह-आदर्श तावत्प्रेक्षत एव, तस्य स्फुटरूपस्य यथावस्थिततया तेनोपलम्भात् , आत्मानं-आत्मशरीरं पुनर्न पश्यति, तस्य तत्राभावात् , स्वशरीरं हि स्वात्मनि व्यवस्थितं नादर्श, ततः कथमात्मशरीरं च तत्र पश्येदिति ? प्रतिभागंस्वशरीरस्य प्रतिबिम्बं पश्यति । अथ किमात्मकं प्रतिबिम्बम् ? उच्यतेछायापुद्गलात्मकम् , तथा हि-सर्वमैन्द्रियकं वस्तु स्थूलं चयापचयधर्मकं रश्मिवच्च,
१. प्रज्ञा./१५-४२७ सू. ।
D:\ratan.pm5\5th proof