________________
[ श्रीविचाररत्नाकरः रश्मय इति छायापुद्गला व्यवह्रियन्ते, ते च छायापुद्गला प्रत्यक्षत एव सिद्धा:, सर्वस्यापि स्थूलवस्तुनश्छाया अध्यक्षतः प्रतिप्राणिप्रतीतेः । अन्यच्च यदि स्थूलवस्तु व्यवहिततया दूरस्थिततया वा नादर्शादिष्ववगाढरश्मिर्भवति, ततो न तत्र तत् दृश्यते तस्मादवसीयते सन्ति छायाः पुद्गला इति, ते च छायापुद्गलास्तत्तत्सामग्रीवशाद्विचित्रपरिणमनस्वभावाः, तथा हि-ते च छायापुद्गला दिवा वस्तुन्यभास्वरे प्रतिगताः सन्तः स्वसम्बन्धिद्रव्याकारमाबिभ्राणाः श्यामरूपतया परिणमन्ते निशि तु कृष्णाभाः, एतच्च प्रसरति दिवसे सूर्यकरनिकरे निशि तु चन्द्रोद्योते प्रत्यक्ष एव सिद्धम् । त एव छायापरमाणव आदर्शादिभास्वरद्रव्यप्रतिगताः सन्तः स्वसम्बन्धिद्रव्याकारमादधाना यादृग्वर्णः स्वसम्बन्धिनि द्रव्ये कृष्णो नीलः सितः पीतो वा तदाभाः परिणमन्ते, एतदप्यादर्शादिष्वध्यक्षतः सिद्धम्, ततोऽधिकृतसूत्रेऽपि ये मनुष्यस्य छायापरमाणव आदर्शमुपसङ्क्रम्य स्वदेहवर्णतया स्वदेहाकारतया च परिणमन्ते, तेषां तत्रोपलब्धिर्न शरीरस्य, ते च प्रतिबिम्बशब्दवाच्याः, अत उक्तं - " न शरीरं पश्यति किं तु प्रतिभागं " [ ] इति । न चैतत्स्वमनीषिकाविजृम्भितम्, यत उक्तमागमे—
"सामा उ दिया छाया, अभासुरगता निसिं तु कालाभा ।
सा चेव भासुरगया, सदेहवण्णा मुणेयव्वा ॥१॥ [ नि.भा./४३१९] जे आदरिसस्संतो, ,देहावयवा हवंति संकंता ।
१६]
तेसिं तत्थुवलद्धी, पगासजोगा न इयरेसिं" ॥२॥ [ नि.भा./४३२३ ] मूलटीकाकारोऽप्याह-" यस्मात्सर्वमेव हि ऐन्द्रियकं स्थूलं द्रव्यं चयापचयधर्मकं रश्मिवच्च भवति, यतश्चादर्शादिषु छाया स्थूलस्य दृश्यतेऽवगाढरश्मिनः न चानवगाढरश्मिनः, ततः स्थूलद्रव्यस्य कस्यचिद्दर्शनं भवति न चान्तरितं दृश्यते किञ्चित् अतिदूरस्थं वा, अतः ‘पलिभागं’ प्रतिभागं ‘पेहति' पश्यति । [ ] एवमसिमण्यादिविषयाण्यपि षट् (सप्त) - सूत्राणि भावनीयानि । सूत्रपाठोऽप्येवम्-" असिं पेहमाणे मणूसे किं असिं पेहइ अत्ताणं पेहइ पलिभागं पेहइ ? गोयमा ! नो असिं पेहइ नो अप्पाणं पेहइ पलिभागं पेहइ" । इत्यादि । इति श्रीप्रज्ञापनापञ्चदशपदसूत्रवृत्तौ प्रथमोद्देशके ४०० प्रतौ ॥७॥
अथ यस्माद्दण्डकात् समागतस्तीर्थकरादित्वं लभते तल्लिख्यते
रेयणप्पभापुढवीनेरइए णं भंते ! रयणप्पभापुढवीनेरइएहिंतो अणंतरं उवट्टित्ता
१. नयनादी नि. भाष्ये । २. प्रज्ञा. / २०-५/ ५०५सू. /
D:\ratan.pm5\5th proof