________________
१८]
[श्रीविचाररत्नाकरः "मणुयाण जहण्णपदे, एक्कारसपुव्वकोडिकोडीओ। बावीसकोडिलक्खा, कोडिसहस्साइ चुलसीई ॥१॥ [ प्रज्ञा./१२-४४०वृ.] अद्वैव य कोडिसया, पुव्वाए दसुत्तरा तओ होति । एक्कासीई लक्खा, पंचाणई सहस्साई ॥२॥ [ प्रज्ञा./१२-४४०७.] छप्पन्ना तिन्निसया, पुव्वाणं पुव्ववणिया अण्णे । एत्तो पुव्वंगाई, इमाइ अहियाइ अण्णाइं ॥३॥ [ प्रज्ञा./१२-४४०.] लक्खाइ एगवीसं, पुव्वंगाण सयरी सहस्साई । छच्चेवेगूणट्ठा, पुव्वंगाणं सया होंति ॥४॥ [ प्रज्ञा./१२-४४०वृ.] तेसीइ सयसहस्सा, पण्णासं खलु भवे सहस्साई ।
तिन्नि सया छत्तीसा, एवइया अविगला मणुया ॥५॥ [ प्रज्ञा./१२-४४०३.] इति इमामेव सङ्ख्यां विशेषोपलम्भनिमित्तं प्रकारान्तरेणाह-'अहव णं छन्नउइ च्छेयणगदाई रासी' इति, 'अहव णं'ति प्राग्वत् षणवतिच्छेदनकानि यो राशिर्ददाति स षणवतिच्छेदनकदायी राशिः, किमुक्तं भवति? यो राशिरर्द्धनार्द्धन छिद्यमानः षण्णवति वारान् छेदं सहते पर्यन्ते च सकलमेकं रूपं पर्यवसित भवति स षण्णवतिच्छेदनकदायी राशिरिति, कः पुनरेवंविध इति चेत् ? उच्यते-एष एव षष्ठो वर्गः पञ्चमवर्गगुणितः, कोऽत्र प्रत्यय इति चेत् ? उच्यते-इह प्रथमवर्गश्छिद्यमाने द्वे छेदनके ददाति, तद्यथाप्रथमच्छेदनकं द्वौ द्वितीयमेकमिति, द्वितीयो वर्गश्चत्वारि च्छेदनकानि, तत्र प्रथममष्टौ, द्वितीयं चत्वारः तृतीयं द्वौ चतुर्थमेक इति । एवं तृतीयो वर्गोऽष्टौ छेदनकानि प्रयच्छति, चतुर्थः षोडश, पञ्चमो द्वात्रिंशतं षष्ठश्चतुःषष्ठिं, स चैवं पञ्चमवर्गेण गुणितः षण्णवतिः, कथमेतदवसेयमिति चेत् ? उच्यते-इह यो यो वर्गो येन येन वर्गेण गुण्यते तत्र तयोर्द्वयोरपि छेदनकानि प्राप्यन्ते, यथा-प्रथमवर्गेण गुणिते द्वितीयवर्गे षट् , तथाहिद्वितीयो वर्गः षोडशलक्षणः प्रथमवर्गेण चतुष्करूपेण गुण्यते जाता चतुःषष्टिः, तस्याः प्रथमं छेदनकं द्वात्रिंशत् , द्वितीयं षोडश, तृतीयमष्टौ, चतुर्थं चत्वारः, पञ्चमं द्वौ, षष्ठमेक इति, एवमन्यत्रापि भावनीयम् । तत्र पञ्चमवर्गे द्वात्रिंशच्छेदनकानि, षष्ठे चतुःषष्टिः, ततः पञ्चमवर्गेण षष्ठे वर्गे गुणिते षण्णवति छेदनकानि प्राप्यन्ते । अथवा एकं रूपं स्थापयित्वा ततः षण्णवतिवारान् द्विगुणद्विगुणीक्रियते कृतं च सद्यदि तावत्प्रमाणो राशिर्भवति ततोऽवसातव्यमेष षण्णवतिच्छेदनकदायी राशिरिति । तदेवं जघन्यपदमभिहितं, इदानीमुत्कृष्टपदमाह-'उक्कोसपए असंखेज्जा' इत्यादि, उत्कृष्टपदे ये मनुष्या भवन्ति
D:\ratan.pm5\5th proof