________________
श्रीविचाररत्नाकरे मध्यभागे चतुर्थस्तरङ्गः]
[१५७ "लक्खं कोडाकोडी, चउरासीई भवे सहस्साइं । चत्तारि य सत्ता, होंति सया कोडिकोडीणं ॥१॥ [ प्रज्ञा./१२-४४०वृ.] चोयालं लक्खाई, कोडीणं सत्त चेव य सहस्सा । तिणिसया सत्तयरी, कोडीणं होंति नायव्वा ॥२॥ [प्रज्ञा./१२-४४०वृ.] पंचाणउई लक्खा, एक्कावणं भवे सहस्साडं ।
छस्सोलसुत्तरसया, एसो छ8ो हवइ वग्गो ॥३॥ [ प्रज्ञा./१२-४४०वृ.] इति । एष षष्ठो वर्ग: । पञ्चमवर्गेण गुण्यते गुणिते च सति यावान् राशिर्भवति तावत्प्रमाणा जघन्यपदे मनुष्याः , ते चैतावन्तो भवन्ति-७९२२८१६२५१४२६४३३७५९३५४३९५०३३६, एतान्येकोनत्रिंशदङ्कस्थानानि। एतानि च कोटाकोट्यादिद्वारेण कथमप्यभिधातुं न शक्यन्ते ततः पर्यन्तवत्तिनोऽस्थानादारभ्याङ्कस्थानसङ्ग्रहमानं पर्वपरुषप्रणीतेन गाथाद्वयेनाभिधीयते
छ तिण्णि तिण्णि सुण्णं, पंचेव य नव य तिण्णि चत्तारि । पंचेव तिण्णि नव पंच सत्त तिण्णेव तिण्णेव ॥१॥ [ प्रज्ञा./१२-४४०३.] चउ छ दो चउ एक्को, पण दो छक्किक्कगो य अद्वैव ।
दो दो णव सत्तेव य, ठाणाई उवरि हंताई" ॥२॥ [प्रज्ञा./१२-४४०वृ.] अथवाऽयमङ्कस्थानप्रथमाक्षरसङ्ग्रहः
"छ त्ति ति सु पंण ति च पं, ति ण पं स ति ति च छ दो च ए।
पंदो छ ए अदो दुण स, पढमक्खरसन्नियट्ठाणा" ॥१॥[प्रज्ञा./१२-४४०३.] एतेषामेव एकोनत्रिंशदङ्कस्थानानां पूर्वपुरुषैः पूर्वाङ्गः परिसङ्ख्यानां कृतं तदुपदर्श्यते-तत्र चतुरशीतिर्लक्षाणि पूर्वाङ्ग, चतुरशीतिर्लक्षाश्चतुरशीतिलक्षैर्गण्यन्ते ततः पूर्वं भवति, तस्य परिमाणम्-सप्ततिः कोटिलक्षाणि षट्पञ्चाशत्कोटिसहस्राणि ७०५६००००००००००, एतेन भागो ह्रियते तत इदमागतम्-एकादशपूर्वकोटीकोट्यो द्वाविंशतिः पूर्वकोटीलक्षाणि चतुरशीतिः पूर्वकोटीसहस्राणि अष्टादशोत्तराणि पूर्वकोटिशतानि, एकाशीतिः पूर्वलक्षाणि पञ्चनवतिः पूर्वसहस्राणि त्रीणि षट्पञ्चाशदधिकानि पूर्वशतानि, अत ऊर्ध्वं पूर्वैर्भागो न लभ्यते ततः पूर्वाङ्गैर्भागहरणं तत्रेदमागतम्-एकविंशतिः पूर्वाङ्गलक्षाणि सप्ततिः पूर्वाङ्गसहस्राणि षट् एकोनषष्ट्यधिकानि पूर्वाङ्गशतानि, तत ऊर्ध्वं चेदमन्यदुद्धरितमवतिष्ठते-त्र्यशीतिर्लक्षाणि पञ्चाशत्सहस्राणि त्रीणि शतानि षविशदधिकानि मनुष्याणामिति ११२२८४११८८१९५३५६ । २१७०६५९ । ८३५०३३६ । तथा च पूर्वाचार्यप्रणीता अत्र गाथा:
D:\ratan.pm5\5th proof