________________
१६]
[श्रीविचाररत्नाकरः पयस्सुवरिं चउजमलपयस्स हेट्ठा' इति, इह मनुष्यसङ्ख्याप्रतिपादकान्येकोनत्रिंशदङ्कस्थानानि वक्ष्यमाणानि, तत्र समयपरिभाषयाऽष्टानामष्टानामङ्कस्थानानां यमलपदमिति सञ्ज्ञा, चतुर्विशत्या चाङ्कस्थानैस्त्रीणि यमलपदानि लब्धानि, उपरि पञ्चाङ्कस्थानानि तिष्ठन्ति, अथवा यमलपदमष्टभिरङ्कस्थानैस्ततश्चतुर्थं यमलपदं न प्राप्यते तत उक्तं त्रयाणां यमलपदानामुपरि पञ्चभिरङ्कस्थानैर्वर्द्धमानत्वात् , चतुर्थस्य च यमलपदस्याधस्तात्रिभिरङ्कस्थानीनत्वात् । अथवा द्वौ द्वौ वर्गों समुदितौ एकं यमलपदम् , चत्वारो वर्गाः समुदिताः द्वे यमलपदे, षट् वर्गाः समुदितास्त्रीणि यमलपदानि, अष्टौ वर्गाः समुदिताश्चत्वारि यमलपदानि, तत्र यस्मात् षण्णां वर्गाणामुपरि वर्तन्ते सप्तमस्य च वर्गस्याधस्तात् तत उक्तं-त्रियमलपदस्योपरि चतुर्यमलपदस्याधस्तादिति, त्रियमलपदस्येति-तृतीयानां यमलपदानां समाहारस्त्रियमलपदं तस्य तथा चतर्णा यमलपदानां समाहारश्चतर्यमलपदं तस्य । सम्प्रति स्पष्टतरं सङ्ख्यानमुपदर्शयति–'अहव णं छट्ठो वग्गो पंचमवग्गपडुप्पणो' इति, अथवेति-प्रकारान्तरे 'ण'मिति वाक्यालङ्कारे षष्ठो वर्गः पञ्चमवर्गेण प्रत्युत्पन्नोगुणितः सन् यावान् भवति तावत्प्रमाणा जघन्यपदे मनुष्याः, तत्रैकस्य वर्ग एक एव स च वृद्धि न गत इति वर्गो न गण्यते, द्वयोर्वर्गश्चत्वार एष प्रथमो वर्गः ४, चतुर्णां वर्ग: षोडश एष द्वितीयो वर्ग: १६, षोडशानां वर्गे द्वे शते षट्पञ्चाशदधिके एष तृतीयो वर्ग: २५६, द्वयोः शतयोः षट्पञ्चाशदधिकयोर्वर्गः पञ्चषष्टिः सहस्राणि पञ्चशतानि षट्त्रिशदधिकानि एष चतुर्थो वर्गः ६५५३६, एतस्य वर्गश्चत्वारि कोटिशतानि एकोनत्रिंशत्कोटयः एकोनपञ्चाशल्लक्षाः सप्तषष्टिः सहस्राणि द्वे शते षणवत्यधिके एष पञ्चमो वर्गः ४२९९६७२९६, उक्तं च
"चत्तारि य कोडिसया, अउणत्तीसं च होंति कोडीओ। अउणावणं लक्खा , सत्तट्टी चेव य सहस्सा ॥१॥ [प्रज्ञा./१२-४४०वृ.] दो य सया छण्णउया, पंचवग्गो समासओ होइ।
एयस्स कतो वग्गो, छटो जो होइ तं वोच्छं" ॥२॥ [ प्रज्ञा./१२-४४०३.] एतस्य पञ्चमस्य वर्गस्य यो वर्गः स षष्ठो वर्गस्तस्य परिमाणम्-एक कोटीकोटीशतसहस्रं चतुरशीतिः कोटीकोटीसहस्राणि चत्वारि सप्तषष्ठ्यधिकानि कोटीकोटीशतानि चतुश्चत्वारिंशत्कोटिलक्षणानि सप्तकोटीसहस्राणि त्रीणि सप्तत्यधिकानि कोटिशतानि पञ्चनवतिर्लक्षाः एकपञ्चाशत्सहस्राणि षट्शतानि षोडशोत्तराणि १८४४६७४४०७३७०९५५१६१६, एष षष्ठो वर्गः । उक्तं च
D:\ratan.pm5\5th proof