________________
श्रीविचाररत्नाकरे मध्यभागे चतुर्थस्तरङ्गः]
[१५५ अत्र सूत्ररुचिबीजरुच्यधिगमरुचीनां स्वरूपं लिख्यते
मणुस्सा णं भंते ! केवइया ओरालियसरीरगा पन्नत्ता ? गोयमा ! दुविहा पन्नत्ता तंजहा-बद्धेल्लगा य मुक्केल्लगा य, तत्थ णं जे ते बद्धेल्लगा ते णं सिय संखेज्जा सिय असंखेज्जा, जहन्नपदे संखेज्जा संखेज्जाओ कोडाकोडीओ तिजमलपयस्स उवरिं चउजमलपयस्स हिट्ठा, अहव णं छट्ठो वग्गो पंचमवग्गपडुप्पणो, अहव णं छन्नउइच्छेयणगदाई रासी । उक्कोसपए असंखेज्जा, असंखेज्जाहिं उस्सप्पिणीओसप्पिणीहिं अवहीरंति कालतो, खेत्ततो रूवपक्खित्तेहिं मणुस्सेहिं सेढी अवहीरति, तीसे सेढीए आगासखेत्तेहिं अवहारो मग्गिज्जइ असंखेज्जा असंखेज्जाहिं उस्सप्पिणिओसप्पिणिहिं कालतो. खेत्ततो अंगलपढमवग्गमूलं तइयवग्गमूलपडुप्पणं ॥ इति । वृत्तिर्यथा-मनुष्याणां बद्धान्यौदारिकशरीराणि स्यात्-कदाचित्सङ्ख्येयानि कदाचिदसङ्ख्येयानि, कोऽत्राभिप्रायः इति चेत् ? उच्यते-इह द्वये मनुष्या-गर्भव्युत्क्रान्तिकाः सम्मूच्छिमाश्च, तत्र गर्भव्युतक्रान्तिकाः सदाऽवस्थायिनो, न स कश्चित्कालोऽस्ति यो गर्भव्युत्क्रान्तिकमनुष्यविरहितो भवति, सम्मूच्छिमाश्च कदाचिद्विद्यन्ते कदाचित् सर्वथा तेषामभावो भवति, तेषामुत्कर्षतोऽन्तर्मुहूर्तायुष्कत्वात् , उत्पत्त्यन्तरस्य चोत्कर्षतश्चतुर्विंशतिमुहूर्तप्रमाणत्वात् , ततो यदा सर्वथा सम्मूच्छिमा मनुष्या न विद्यन्ते किन्तु केवला गर्भव्युत्क्रान्तिका एव तिष्ठन्ति तदा स्यात्सङ्ख्येयाः, सङ्ख्येयानामेव गर्भव्युत्क्रान्तिकानां भावात् , महाशरीरत्वे प्रत्येकशरीरत्वे च सति परिमितक्षेत्रवर्त्तित्वात् , यदा तु सम्मूच्छिमास्तदाऽसङ्ख्येयाः सम्मूच्छिमानामुत्कर्षतः श्रेण्यसङ्ख्येयभागवर्तिनभ:प्रदेशराशिप्रमाणत्वात् , तथा चाह-'जहन्नपदे संखेज्जा' इत्यादि, जघन्यपदं नाम यत्र सर्वस्तोका मनुष्याः प्राप्यन्ते, आह-किमत्र सम्मूछिमानां ग्रहणमुत गर्भव्युत्क्रान्तिकानाम् ? उच्यते-गर्भव्युत्क्रान्तिकानां तेषामेव सदाऽवस्थायितया सम्मूच्छिमविरहे सर्वस्तोकतया प्राप्यमाणत्वात् , उत्कृष्टपदे तूभयेषामपि ग्रहणम् , यदाह मूलटीकाकार:-"सेतराणां ग्रहणमुत्कृष्टपदे जघन्यपदे गर्भव्युत्क्रान्तिकानामेव केवलानां ग्रहणम्" [ ] इति । अस्मिन् जघन्यपदे सङ्ख्येया मनुष्याः, तत्र सङ्ख्येयकं सङ्ख्येयभेदभिन्नमिति न ज्ञायते कियन्तस्ते ? इति विशेष निर्धारयति सङ्ख्येयाः कोटीकोट्यः, अथवा इदमन्यत् विशेषतरं परिमाणं 'तिजमल
१. प्रज्ञा./१२-४४० सू.।
D:\ratan.pm5\5th proof