________________
१४]
[श्रीविचाररत्नाकरः प्राणापानयोग्यपुद्गलोपादानम् , ततः समकम्-एककालं तदुत्तरकालभाविनावुच्छ्वानिश्वासौ ॥१॥ तथा एकस्य यदाहारादिपुद्गलानां ग्रहणं तदेव बहूनामपि साधारणजीवानामवसेयम् , किमुक्तं भवति ? यदाहारादिकमेको गृह्णाति शेषा अपि तच्छरीराश्रिता बहवोऽपि तदेव गृह्णन्तीति, तथा च यद् बहूनां ग्रहणं तत्सङ्क्षपादेकत्र शरीरे समावेशादेकस्यापि ग्रहणम् ॥२॥ सम्प्रत्युक्तार्थोपसंहारमाह-'साहारण' इत्यादि, सर्वेषामप्येकशरीराश्रितानां जीवानामुक्तप्रकारेण यत्साधारणं-साधारणः, सूत्रे नपुंसकतानिर्देश: आर्षत्वात् , आहार:-आहारयोग्यपुद्गलोपादानम् , यच्च साधारणं प्राणापानयोग्यपुद्गलोपादानमुपलक्षणमेतत् यौ साधारणावुच्छ्वासनिःश्वासौ या च साधारणा शरीरनिवृत्तिः एतत्साधारणजीवानां लक्षणम् ॥३।। सम्प्रति यथैकस्मिन्निगोदशरीरेऽनन्ता जीवाः परिणताः प्रतीतिपथमवतरन्ति तथा प्रतिपादयन्नाह-'जह अयगोलो' इत्यादि, यथा अयोगोलो ध्मातः सन् तप्ततपनीयसङ्काशः सर्वोऽग्निपरिणतो भवति तथा निगोदजीवान् जानीहि, निगोदरूपेऽप्येकैकस्मिन् शरीरे तच्छरीरात्मकतयाऽनन्तान् जीवान् परिणतान् जानीहि ॥४॥ एवं च सति–'एगस्स' इत्यादि, एकस्य द्वयोस्त्रयाणां यावत्सङ्ख्येयानां, वा शब्दादसङ्ख्येयानां वा निगोदजीवानां शरीराणि द्रष्टुं न शक्यानि, कुतः इति चेत् ? उच्यते-अभावात् , न ह्येकादिजीवगृहीतानि अनन्तवनस्पतिशरीराणि सन्ति, अनन्तजीवपिण्डात्मकत्वात्तेषाम. कथं तमुपलभ्यानि ? इत्यत आह–'दीसंति' इत्यादि, दृश्यन्ते शरीराणि निगोदजीवानां-बादरनिगोदजीवानामनन्तानां न तु सूक्ष्मनिगोदजीवानाम् , तेषां शरीराणामनन्तजीवसङ्घातात्मकत्वेऽप्यनुपलभ्यस्वभावत्वात् , तथा सूक्ष्मपरिणामपरिणतत्वात् , अथ कथमेतदवसीयते निगोदरूपशरीरं नियमादनन्तजीवपरिणामाविर्भावितं भवतीति ? उच्यते-जिनवचनात् । तच्चेदम्
"गोला य असंखिज्जा, असंखनिगोअओ हवइ गोलो ।
एक्कक्कंमि निगोए, अणंतजीवा मुणेयव्वा" ॥१॥ [ नि.ष./१२] ।।५।। सम्प्रत्येतेषामेव निगोदजीवानां प्रमाणमभिधीत्सुराह–'लोगागास' इत्यादि, एकैकस्मिन् लोकाकाशप्रदेशे एकैकं निगोदजीवं स्थापय, एवमेकैकस्मिन् आकाशप्रदेशे एकैकजीवरचनया मीयमाना अनन्तालोका-अनन्तलोकाकाशप्रदेशप्रमाणा निगोदजीवा भवन्ति ॥६॥ इति प्रज्ञापनाप्रथमपदवृत्तौ ४०० प्रतौ ३१ पत्रे ॥४॥
D:\ratan.pm5\5th proof