________________
श्रीविचाररत्नाकरे मध्यभागे चतुर्थस्तरङ्गः]
[१५३ बिंटं मंसकडाहं, एयाइं हुंति एगजीवस्स ।
पत्तेयं पत्ताई, सकेसरमकेसरं मिंजा ॥९१॥ [ प्रज्ञा./१-१३१] वृत्तिर्यथा-पुष्पफलमेवं कालिङ्गं तुम्बं त्रपुषं 'एलवालु' त्ति चिर्भटविशेषरूपं वालुकंचिर्भटम् । तथा घोषातकं पटोलं तेन्दुकं तिन्दूसं च यत्फलम् , एतेषु प्रत्येकं 'बिण्टं' वृन्तं 'मंसकडाहं' इति मासं-गिरं तथा कटाहं, एतानि त्रीणि एकस्य जीवस्य भवन्ति एकजीवात्मकान्येतानि त्रीणि भवन्तीत्यर्थः । तथा एतेषामेव पुष्पफलादीनां तिन्दु(स)पर्यन्तानां पत्राणि पृथक् 'प्रत्येकं' इति प्रत्येकशरीराधिष्ठितानि-एकैकजीवाधिष्ठितानीत्यर्थः । तथा सकेसरा अकेसरा वा मिञ्जा-बीजानि प्रत्येकमेकैकजीवाधिष्ठितानि ॥९०-९१।। इति श्रीप्रज्ञापनाप्रथमपदसूत्रवृत्तौ ४०० प्रतौ २९ पत्रे ॥३॥
अथ निगोदजीवा यथाऽऽहारान्नपानादिकं गृह्णन्ति, यथा चैकस्मिन् शरीरेऽनन्तास्तिष्ठन्तो मृदुधियां प्रतीतिपथमवतरन्ति, यथा च तेषामानन्त्यं सुखेन प्रतीयते तथा लिख्यते
समयं वक्वंताणं, समयं तेसिं सरीरनिव्वत्ती। समयं आणुग्गहणं, समयं ऊसासणीसासो ॥१॥[ प्रज्ञा./१-१३५ ] एक्कस्स उ जं गहणं, बहूण साहारणाण तं चेव । जं बहुयाणं गहणं, समासओ तं पि एगस्स ॥२॥ [ प्रज्ञा./१-१३६ ] साहारणमाहारो, साहारणआणुपाणगहणं च । साहारणजीवाणं, साहारणलक्खणं एयं ॥३॥ [ प्रज्ञा./१-१३७] जह अयगोलो धंतो, जाओ तत्ततवणिज्जसंकासो । सव्वो अगणिपरिणओ णिगोयजीवे तहा जाण ॥४॥[प्रज्ञा./१-१३८ ] एक्कस्स दोन्ह तिन्ह व, संखिज्जाण व ण पासिउं सक्का । दीसंति सरीराइं, णिगोयजीवाणणंताणं ॥५॥[प्रज्ञा./१-१३९] लोगागासपएसे, णिगोयजीवं ठवेहि इक्किक्कं ।
एवं मविज्जमाणा, हवंति लोगा अणंता उ॥६॥ [ प्रज्ञा./१-१४०] एतवृत्तिर्यथा-'समयं' इत्यादि, 'समय' युगपद्व्युत्क्रान्तानां-उत्पन्नानां सतां तेषांसाधारणजीवानां 'समयं'-एककालं शरीरनिवृत्तिर्भवति, समकं च प्राणापानग्रहणं
D:\ratan.pm5\5th proof