________________
[ श्रीविचाररत्नाकरः
तथा-प्रकारा:-एवम्प्रकारास्तत्तद्देशविशेषभाविनः ते सर्वेऽपि एकास्थिका वेदितव्याः, एतेषां-एकास्थिकानां मूलान्यप्यसङ्ख्येयजीवकानि-असङ्ख्येयप्रत्येकशरीरजीवात्मकानि एवं कन्दा अपि स्कन्धा अपि त्वचोऽपि शाखा अपि प्रवाला अपि प्रत्येकमसङ्ख्येयप्रत्येकशरीरजीवकाः, तत्र मूलानि यानि कन्दस्याऽधस्तद्भूमेरन्तः प्रसरन्ति, तेषामुपरि कन्दाः ते च लोकप्रतीताः, स्कन्धाः - स्थुडाः, त्वचः - छल्ल्यः, शाला:-शाखा:, प्रवाला:-पल्लवाङ्कुराः, ‘पत्ता पत्तेयजीविय' त्ति पत्राणि प्रत्येकजीवकानि - एकैकं पत्रमेकैकेन जीवेनाधिष्ठितमिति भावः, 'पुप्फा अणेगजीविय'त्ति पुष्पाण्यनेकजीवानि प्रायः प्रतिपुष्पपत्रं जीवभावात्, फलान्येकास्थिकानि । उपसंहारमाह-' से तं एगट्ठिया' सुगमम् । इति श्रीप्रज्ञापनाप्रथमपदसूत्रवृत्तौ ४०० प्रतौ २७ पत्रे ॥१॥
केच्चिच्च जातिप्रभृतिपुष्पाणां सङ्ख्यातजीवत्वेऽपि प्रतिमापूजनभयोत्पादनाय सामान्यतः पुष्पाणामनन्तजीवत्वं वदन्तो जनान् विप्रतारयन्ति ते तु दुर्लभबोधिनो वेदितव्याः, पुष्पेषु सङ्ख्यासङ्ख्यानन्तजन्तुकृतो विवेकश्चायं सिद्धान्तोक्तः–
पुफा जलयाथलया य, बिटबद्धा य णालबद्धा य । संखिज्जमसंखिज्जा, बोधव्वाणंतजीवा य ॥८२॥ [ प्रज्ञा. / १ - १२२] जे केइ णालियाबद्धा, पुप्फा संखेज्जजीविया भणिया ।
णिहूया अनंतजीवा, जे यावन्ने तहाविहा ॥८३॥ [ प्रज्ञा./१-१२३ ] वृत्तिर्यथा—‘पुप्फा जलया' इत्यादि, पुष्पाणि चतुर्विधानि तद्यथा - जलजानिसहस्रपत्रादीनि स्थलजानि - कोरण्टकादीनि, एतान्यपि च प्रत्येकं द्विधा, तद्यथाकानिचिद् वृन्तबद्धानि अतिमुक्तकप्रभृतीनि कानिचिन्नालबद्धानि जातिपुष्पप्रभृतीनि अत्र एतेषां मध्ये कानिचित् पत्रादिगतजीवापेक्षया सङ्ख्येयजीवानि कानिचिदसङ्ख्येयजीवानि कानिचिदनन्तजीवानि, यथागमं बोद्धव्यानि ॥८२॥ अत्रैव कञ्चिद्विशेषमाह - ' जे केइ णालियबद्धा' इत्यादि, यानि कानिचिन्नालिकाबद्धानि पुष्पाणि जात्यादिगतानि तानि सर्वाण्यपि सङ्ख्येयजीवकानि भणितानि तीर्थङ्करगणधरैः, स्निहूपुष्पं पुनरनन्तजीवम्, यान्यपि चान्यानि स्निहूपुष्पकल्पानि तान्यपि तथाविधानि - अनन्तजीवात्मकानि ज्ञातव्यानि ॥८३॥ इति श्रीप्रज्ञापनाप्रथमपदसूत्रवृत्तौ ४०० प्रतौ २८ पत्रे ॥२॥
अथ पुष्पफलकालिङ्गफलादीनां वृन्तादीनि यावज्जीवात्मकानि भवन्ति तल्लिख्यतेपुप्फफलं कालिंगं, तुंबं तउसेलवालुवालुकं ।
घोसाडयं पडोलं, तिंडूयं चेव तेंडूसं ॥९०॥ [ प्रज्ञा./१-१३०]
१२]
D:\ratan.pm5\5th proof