________________
श्रीविचाररत्नाकरे मध्यभागे ॥ चतुर्थस्तरङ्गः ॥
अनन्यसामान्यसुवर्णपूर्णं, सतां मनःकामितदं च तूर्णम् । भूयिष्ठरत्नं किल सप्रयत्नं, श्रीजैनसिद्धान्तनिधिं श्रयध्वम् ॥१॥
अथ प्रज्ञापनाविचारा लिख्यन्ते - तत्र निम्बाम्रादिवृक्षाणां मूलपत्रादीनि यथा यावत्प्राणिप्रतिबद्धानि तथा लिख्यन्ते
णिबंबजंबुकोसंब-सालअंकोल्ल पीलु सेलू य ।
सल्लइमोयइमालुय, बउल पलासे करंजे य ॥ १ ॥ [ प्रज्ञा./१-३९ ]
पुत्तंजीवयऽरिट्ठे, बिहेलए हरिडए य भिल्लाए ।
बेभरिया खीरिण, बोधव्वे धायइ पियाले ॥२॥ [ प्रज्ञा./१-४० ] पूइयनिंबकरंजे, सण्हा तह सीसवा य असणे य ।
पुन्नागनागरुक्खे, सीवन्नि तहा असोए य ॥ ३॥ [ प्रज्ञा./१-४१ ]
'जे यावन्ने तहप्पगारा, एएसिं णं मूला वि असंखेज्जजीविया कंदा वि खंदा वि तया वि साला वि पवाला वि पत्ता पत्तेयजीविया पुप्फा अणेगजीविया फला एगट्टिया से तं एगट्ठिया ॥ इति । वृत्तिर्यथा - 'निंब' इत्यादिगाथात्रयम् । तत्र निम्बाम्रजम्बूकोशाम्बा:प्रतीताः, शालः-सर्जः, ‘अंकोल्ल' ति अङ्कोठः, प्राकृतत्वाच्च सूत्रे ठकारस्य लादेशः, ‘अंकोठे ल्लः' (८-१-२००) इति वचनात्, पीलुः - प्रतीतः, शेलुः- श्लेष्मातकः, सल्लकीगजप्रिया, मोचकीमालुकौ च देशविशेषप्रतीतौ, बकुल:- केसरः, पलासः - किंशुकः, करञ्जो-नक्तमालः ॥१॥ पुत्रजीवको - गोपगिरौ प्रसिद्धः, अरिष्टः- पिचुमन्दः, बिभीतकःअक्षः, हरीतकः-कोङ्कणदेशप्रसिद्धः कषायबहुलः, भल्लातको भल्लातकाभिधानानि फलानि लोकप्रसिद्धानि, उम्बेभरिकाक्षीरणीधातकीप्रियालपूति(निम्ब) करञ्जश्लक्ष्णाशिशपाशनपुन्नागनागश्रीपर्ण्यशोका लोकप्रतीताः । 'जे यावन्ने तहप्पगारा' इति येऽपि चान्ये
१. प्रज्ञा./ १ - ४२ सू. ।
D:\ratan.pm5\5th proof