________________
१४]
[श्रीविचाररत्नाकरः केशेषु ग्रहणं कचग्राहस्तेन कचग्राहेण गृहीतं करतलाद्विमुक्तं सत् प्रभ्रष्टं करतलप्रभ्रष्टविमुक्तम् , प्राकृतत्वात् पदव्यत्ययः, तेन दशार्द्धवर्णेन-पञ्चवर्णेन कुसुमेन कुसुमसमूहने पुष्पपुञ्जोपचारकलितं, पुष्पपुञ्ज एव उपचार: पुष्पपुञ्जोपचार: तेन कलितं-युक्तं करोति कृत्वा च 'चंदप्पभवइरवेरुलियविमलदंडं' चन्द्रप्रभवज्रवैडूर्यमयो विमलो दण्डो यस्य सः तथा तं काञ्चनमणिरत्नभक्तिचित्रं कालागुरुप्रवरकुन्दुरुकतुरुष्कधूपेन गन्धोत्तमोनुविद्धा कालागुरुप्रवरकुन्दरुकतुरुष्कधूपगन्धोत्तमानुविद्धा, प्राकृतत्वात् पदव्यत्ययः, तां धूपवति विनिर्मुञ्चन्तं वैडूर्यमयं धूपकडुच्छुकं प्रगृह्य प्रयतो धूपघटीतो धूपं दत्त्वा जिनवरेभ्यः, सूत्रे षष्ठी प्राकतत्वात , सप्ताष्टानि पदानि पश्चादपसत्य दशाङ्गलिमञ्जलिं मस्तके कत्वा प्रयत: 'अट्ठसयविसुद्धगंथजुत्तेहिं' ति । विशुद्धो-निर्मलो लक्षणदोषरहित इति भावः, यो ग्रन्थ:शब्दसन्दर्भस्तेन युक्तानि विशुद्धग्रन्थयुक्तानि अष्टशतं च तानि विशुद्धग्रन्थयुक्तानि च तैरर्थयुक्तैरर्थसारैरपुनरुक्तैर्महावृत्तैस्तथाविधदेवलब्धेः प्रभावः एषः, संस्तौति संस्तुत्य वाम जानुमञ्चति-उत्पाटयति दक्षिणं जानुं धरणितले 'निवाडेइ' इति निपातयति लगयतीत्यर्थः, त्रिकृत्व:-त्रीन् वारा मूर्धानं धरणितले नमयति नमयित्वा च ईषत्प्रत्युन्नमयति, ईषत्प्रत्युन्नम्य कनकत्रुटितस्तम्भितौ भुजौ 'संहरति' सङ्कोचयति, संहृत्य करतलपरिगृहीतं शिरस्यावर्त मस्तकेऽञ्जलिं कृत्वैवमवादीत्-'नमो त्थु णं' इत्यादि । इति श्रीजीवाभिगमसूत्रवृत्तितृतीयप्रतिपत्तिद्वीपोद्देशके ३१३ प्रतौ १७२ पत्रे ॥५॥
केचिच्चाज्ञानिनो विद्याचारणादिलब्धिमतः श्रमणान् लब्ध्युपजीविनः प्रमादिनो न किञ्चिदेते इत्यादिभिर्वचनैः प्रतिमावन्दनवैरेण निन्दन्ति, तच्च तेषामनन्तसंसारकारणम् , यतस्ते हि महानुभागाः सुतरां नमस्याः यदेतेषां प्रभावेण लवणसमुद्रो जम्बूद्वीपं नावपीडयति । तथा च सिद्धान्तः
कम्हा णं भंते ! लवणसमुद्दे जंबुद्दीवं दीवं नो उवीलेइ ? नो उप्पीलेइ ? नो चेव णं एक्कोदगं करेइ ? गोयमा ! जंबुद्दीवे णं दीवे भरहेरवएसु वासेसु अरिहंतचक्कवट्टिबलदेवा वासुदेवा चारणा विज्जाहरा समणा समणीओ सावया सावियाओ मणुया पगइभद्दया पगइविणीया पगइउवसंता पगइपयणुकोहमाणमायालोभा मिउमद्दवसंपण्णा अल्लीणा भद्दगा विणीया, तेसिणं पणिहाते लवणसमुद्दे जंबुद्दीवं दीवं नो उव्वीलेइ नो चेव णं एक्कोदगं करेइ इति । वृत्तिर्यथा-'कम्हा णं' इत्यादि, कस्माद् भदन्त ! लवणसमुद्दे जम्बुद्वीपं द्वीपं नावपीडयति-जलेन न प्लावयति?
१. जीवा./३प्र./दीव.२२३सू. ।
D:\ratan.pm5\5th proof