________________
श्रीविचाररत्नाकरे मध्यभागे तृतीयस्तरङ्गः]
[१४९ नोत्पीडयति-प्राबल्येन न बाधते ?, ‘णं' इति वाक्यालङ्कृतौ, एकोदकं-सर्वात्मना उदक प्लावितं न करोति ?, भगवानाह-गौतम ! जंबूद्वीपे-भरतैरावतयोः क्षेत्रयोरर्हन्तश्चक्रवर्तिनो बलदेवा वासुदेवा: चारण-जङ्घाचारणमुनयो विद्याधराः श्रमणाःसाधवः श्रमण्यः-संयत्यः श्रावकाः श्राविकाः एतत्सुषमदुष्षमाधारकत्रयवत्तिनमपेक्ष्योक्तं वेदितव्यम् , तत्रैवार्हदादीनां यथायोगं सम्भवात् सुषमसुषमादिकमधिकृत्याह-मनुष्याः प्रकृतिभद्रकाः प्रकृतिप्रतनुक्रोधमानमायालोभाः मृदुमार्दवसम्पन्नाः आलीना भद्रका विनीताः, एतेषां व्याख्यानं प्राग्वत् , तेषां प्रणिधया प्रणिधानं प्रणिधा 'उपसर्गादात्' इत्यङ्प्रत्यय: तान् प्रणिधाय-अपेक्ष्य तेषां प्रभावत इत्यर्थः । लवणसमुद्रो जम्बूद्वीपं द्वीपं नावपीडयतीत्यादि, दुष्षमदुष्षमादावपि नावपीडयति, भरतैरावतवैताढ्याधिपतिदेवता प्रभावात् , तथा क्षुल्लहिमवच्छिखरिणोर्वर्षधरपर्वतयोर्देवता महर्टिका, यावत्करणान्महाद्युतिका इत्यादिपरिग्रह: परिवसन्ति तेषां प्रणिधया-प्रभावेन लवणसमुद्रो जम्बूद्वीपं द्वीपं नावपीडयतीत्यादि तथा हैमवतैरण्यवतोवर्षयोर्मनुजाः प्रकृतिभद्रका यावद्विनीतास्तेषां प्रणिधयेत्यादि पूर्ववत् , तथा महाहिमवद्रुक्मिवर्षधरपर्वतयोर्देवता महद्धिका इत्यादि तथैव, तथा हरिवर्षरम्यकवर्षयोर्मनुजाः प्रकृतिभद्रका इत्यादि सर्वं हैमवतवत् , तथा तयोः क्षेत्रयोर्यथाक्रमं गन्धापातिमाल्यवत्पर्यायौ यौ वृत्तवैताढ्यपर्वतौ तयोर्देवौ महद्धिकावित्यादि पूर्ववत् , तता पूर्वविदेहापरविदेहवर्षयोरर्हन्तश्चक्रवर्तिनो यावन्मनुजाः प्रकृतिभद्रका यावद्विनीतास्तेषां प्रणिधयेत्यादि पूर्ववत् , तथा देवकुरूत्तरकुरुषु मनुजाः प्रकृतिभद्रका यावद्विनीतास्तेषां प्रणिधयेत्यादि पूर्ववत् , तथा उत्तरकुरुषु जम्ब्वां सुदर्शनायामनाहतो नामदेवो जम्बूद्वीपाधिपतिः परिवसति तस्य प्रणिधया-प्रभावेनेत्यादि । इति श्रीजीवाभिगमतृतीयप्रतिपत्तिद्वीपोद्देशके २६४ प्रतौ १८५ पत्रे ॥६॥
चातुर्मासिकसांवत्सरिकपर्वदिनानि देवानामपि सुतरां मान्यानीत्यभिप्रायो लिख्यते
सेसं तहेव जाव सिद्धायतणा सव्वा ते चिय वण्णणा णायव्वा । तत्थ णं बहवे भवणवइवाणमंतरजोइसियवमाणिया देवा चाउम्मासियपडिवएसु संवच्छरेसु य अण्णेसु बहूसु जिणजम्मणनिक्खमणणाणुप्पायपरिणिव्वाणमादिएसु य देवकज्जेसु य देवसमुदएसु य देवसमितीसु य देवसमवाएसु य देवपओयणेसु य एगंतओ सहिया समुवागया समाणा पमुइयपक्कीलिया अट्ठाहियारूवाओ
१. जीवा./३प्र./दीव.२९४सू. मध्ये ।
D:\ratan.pm5\5th proof