SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ श्रीविचाररत्नाकरे मध्यभागे तृतीयस्तरङ्गः] [१४७ वेरुलियविमलदंडं कंचनमणिरयणभत्तिचित्तं कालागुरुपवरकुंदुरुक्कतुरुक्कधूवगंधुत्तमाणुविद्धं धूमवट्टि विणिमुयंतं वेरुलियामयं कडुच्छयं पग्गाहित्तु पयत्तेणं धूवं दाऊण जिणवराणं अट्ठसयविसुद्धगंथजुत्तेहिं महावित्तेहिं अत्थजुत्तेहिं अपुणरुत्तेहिं संथुणइ संथुणित्ता सत्तट्ठपयाइं ओसरति सत्तट्ठपयाई ओसरित्ता वामं जाणुं अंचेइ अंचेत्ता दाहिणं जाणुं धरणितलंसि निवाडेइ तिक्खुत्तो मुद्धाणं धरणितलंसि णमेइ नमित्ता ईसिं पच्चुन्नमइ पच्चुन्नमित्ता कडयतुडियथंभियाओ भुयाओ पडिसाहरति पडिसाहरित्ता करतलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्ट एवं वयासी-नमो त्थु णं । इति । वृत्तिर्यथा-ततः स विजयो देवश्चतुर्भिः सामानिकसहस्रैश्चतसृभिः सपरिवाराभिरग्रमहिषीभिः तिसृभिः पर्षद्भिः सप्तभिरनीकैः सप्तभिरनीकाधिपतिभिः षोडभिरात्मरक्षकदेवसहस्रैः अन्यैश्च बहुभिर्विजयराजधानीवास्तवैर्वानमन्तरैर्देवैर्देवीभिश्च सार्द्ध संपरिवृतः सर्वद्धा, 'जाव निग्घोसनादितरवेणं'ति यावत्करणादेवं परिपूर्णः पाठो द्रष्टव्यः-"सव्वजुईए, सव्वबलेणं सव्वसमुदएणं सव्वविभूईए सव्वसंभमेणं, सव्वपुप्फगंधमल्लालंकारेणं सव्वतुडियसद्दनिन्नाएणं महया इड्डीए महया जुईए महया बलेणं महया समुदएणं महया वरतुडियजमगसमगपडुप्पवाइयरवेणं संखपणवपडहभेरिझल्लरिखरमुहिहुडुक्कदुन्दुभिनिग्घोसनादितरवेणं"। अस्य व्याख्या प्राग्वत् । यत्रैव सिद्धायतनं तत्रैवोपागच्छति उपागत्य सिद्धायतनमनुप्रदक्षिणीकुर्वन् पूर्वद्वारेण प्रविशति प्रविश्यालोके जिनप्रतिमानां प्रणामं करोति, कृत्वा यत्रैव मणिपीठिका यत्रैव देवच्छन्दको यत्रैव जिनप्रतिमास्तत्रैवोपागच्छति उपागत्य लोमहस्तकं परामृशति परामृश्य च जिनप्रतिमाः प्रमार्जयति प्रमार्जय दिव्ययोदकधारया स्नपयति स्नपयित्वा सरसेनाट्टैण गोशीर्षचन्दनेन गात्राण्यनुलिम्पति अनुलिप्य अहतानि अपरिमलितानि दिव्यानि देवदूष्ययुगलानि 'नियंसेइ' इति परिधापयति, परिधाप्याग्रैरभुक्तैवरैः प्रधानैर्गन्धैर्माल्यैश्चार्चयति । एतदेव सविस्तरमुपदर्शयति-पुष्पारोपणं माल्यारोपणं वर्णकारोपणं चूर्णारोपणं गन्धारोपणं अभारणारोपणं (च) करोति, कृत्वा तासां जिनप्रतिमानां पुरतोऽच्छै:-स्वच्छैः श्लक्ष्णैः-मसृणै रजतमयैः, अच्छो रसो येषां ते अच्छरसाः प्रत्यासन्नवस्तुप्रतिबिम्बाधारभूता इवातिनिर्मला इति भावः, ते च ते तन्दुलाश्च अच्छरसतन्दुलाः पूर्वपदस्य दीर्घान्तता प्राकृतत्वात् । यथा 'वइरामया नेमा' इत्यादौ, देवाः तैरष्टावष्टौ स्वस्तिकादीनि मङ्गलकान्यालिखति, आलिख्य 'कयग्गाहग्गहीयं' इत्यादि, मैथुनप्रथमसंरम्भे मुखचुम्बनाद्यर्थं युवत्याः पञ्चाङ्गुलिभिः D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy