________________
[श्रीविचाररत्नाकरः सुचरितजनितं कर्मापि 'कार्ये कारणोपचारात्' सुचरितमिति विवक्षितम् , ततोऽयं भावार्थ:-विशिष्टतथाविधधर्मानुष्ठानविषयाप्रमादकरणक्षान्त्यादिषु सुचरितानामिति, तथा सुपराक्रान्तानामत्रापि 'कारणे कार्योपचारात्' सुपराक्रान्तजनितानि कर्माण्येव सुपराक्रान्तानि इत्युक्तं भवति, सकलसत्त्वमैत्रीसत्यभाषणपरद्रव्यानपहारसुशीलादिरूपसुपराक्रमजनितानामिति, अत एव शुभानां शुभफलानां, इह किञ्चिदशुभफलमपि इन्द्रियमतिविपर्यासात् शुभफलमाभाति ततस्तात्त्विकशुभत्वप्रतिपत्त्यर्थमस्यैव पर्यायशब्दमाह-कल्याणानां-तत्त्ववृत्त्या तथाविधविशिष्टफलदायिनां, अथवा कल्याणानांअनर्थोपशमकारिणां कल्याणरूपं फलविपाकं 'पच्चणुभवमाणा' प्रत्येकमनुभवन्तो विहरन्ति-आसते । इति श्रीजीवाभिगमसूत्रवृत्तौ तृतीयप्रतिपत्तिमन्दरोद्देशके ॥४॥
प्रतिमार्चनव्यामोहनिराकरणाय हिताय सुखाय क्षमाय निःश्रेयसाय आनुगामिकतायै भविष्यतीति कृत्वा यथा विजयदेवेन सविस्तरं प्रतिमापूजिता तथा लिख्यते
तते णं से विजए देवे चउहिं सामाणियसाहस्सीहिं जाव अण्णेहि य बहूहिं वाणमंतरेहिं देवेहि य देवीहि य सद्धि संपरिवुडे सव्विड्डीए सव्वज्जुत्तीए जाव णिग्घोसणाइयरवेणं जेणेव सिद्धाययणे तेणेव उवागच्छति उवागच्छित्ता सिद्धाययणं अणुप्पयाहिणीकरेमाणे २ पुरथिमिल्लेणं दारेणं अणुपविसति अणुपविसित्ता जेणेव देवच्छंदए तेणेव उवागच्छति उवागच्छित्ता आलोए जिणपडिमाणं पणामं करेति करित्ता लोमहत्थगं गेण्हति लोमहत्थगं गेण्हित्ता जिणपडिमाओ लोमहत्थएणं पमज्जति पमज्जित्ता सुरभिणा गंधोदएणं न्हाणेति, सुरभिगंधोदएणं न्हाणेत्ता दिव्वाए सुरभीए गंधकासाईए गाताई लूहेति, गाताई लूहेत्ता सरसेणं गोसीसचंदणेणं गाताई अणुलिंपइ अणुलिंपेत्ता जिणपडिमाणं अहयाइं सेताइं दिव्वाइं देवदूसजुयलाई णियंसेति नियंसेत्ता अग्गेहिं वरेहि य गंधेहि य मल्लेहि य अच्चेति अच्चत्ता पुप्फारुहणं गंधारुहणं मल्लारुहणं वण्णारुहणं चुण्णारुहणं आभरणारुहणं करेति करेत्ता आसत्तो सत्तविउलवट्टवग्घधारितमल्लदामकलावं करेति करेत्ता अच्छेहिं सण्हेहिं सेएहिं रययामएहिं अच्छरसातन्दुलेहि जिणपडिमाणं पुरओ अट्ठट्ठमंगलए आलिहति सोत्थियसिरिवच्छ जाव दप्पणे अट्ठमंगले आलिहति आलिहित्ता कयग्गाहग्गहितकरतलपब्भट्ठविप्पमुक्केणं दसद्धवन्नेणं कुसुमेणं मुक्कपुष्फपुंजोवयारकलितं करेति करेत्ता चंदप्पभवइर
१. जीवा./३प्र./दीव./७९सू.।
D:\ratan.pm5\5th proof