________________
श्रीविचाररत्नाकरे मध्यभागे तृतीयस्तरङ्गः]
[१४५ प्रमुखशतसहस्राणि, भुजगपरिसर्पाणां नव, उरगपरिसर्पाणां दश, चतुष्पदानां दश, जलचराणामर्द्धत्रयोदशानि, चतुरिन्द्रियाणां नव, त्रीन्द्रियाणामष्टौ, द्वीन्द्रियाणां सप्त, पुष्पजातीनां षोडश । एतेषां चैकत्र मीलने त्रिनवतिर्जातिकुलकोटियोनिप्रमुखशतसहस्राणि सार्द्धानि भवन्ति, ततश्चतुरशीतिसङ्ख्योपादानमुपलक्षणमवसेयं, न चैतव्याख्यानं स्वमनीषिकाविजृम्भितम् , यत उक्तं चूर्णी-'आजीवगदिटुंतेण'ति, अशेषजीवनिदर्शनेन चउरासीजातिकुलकोटियोनिप्रमुखशतसहस्रा एतत्प्रमुखा अन्येऽपि विद्यन्ते । इति श्रीजीवाभिगमसूत्रवृत्तितृतीयप्रतिपत्तौ तिर्यगधिकारे प्रथमोद्देशके २६४ प्रतौ ८० पत्रे ॥३॥
केचिच्च मिथ्यात्विकृतानि सर्वसत्त्वमैत्रीसत्यभाषणपरद्रव्यानपहारसुशीलादिरूपाणि मार्गानुसारिधर्मकर्तव्यान्यपि निष्फलान्येव इत्याहुः तच्चाज्ञानविलसितं वेदितव्यम् , यतो व्यन्तरदेवाः प्राग्जन्मकृतानां सुचीर्णानां सुचरितानां शुभफलानां सकलसत्त्वमैत्रीसत्यभाषणपरद्रव्यानपहारसुशीलादिकर्मणां फलमनुभवन्तीति सिद्धान्तेऽभिहितम् , ते च प्राग्जन्मनि मिथ्यादृश एव, सम्यग्दृशां विमानवर्जायुर्बन्धाभावात् , सिद्धान्तश्चायम्
तत्थ णं बहवे वाणमंतरा देवा देवीओ य आसयंति सयंति चिटुंति णिसीदन्ति तुयटृति रमंति ललंति कीलंति मोहंति पुरापोराणाणं सुचिण्णाणं सुपरिक्वंताणं सुभाणं कल्लाणाणं कडाणं कम्माणं फलवित्तिविसेसं पच्चणुब्भव-माणा विहरंति ॥ इति । वृत्तिर्यथा-'तत्थ' इति तत्र तेषु उत्पादपर्वतादिगतहंसासनादिषु यावन्नानारूपसंस्थानसंस्थितपृथिवीशिलापटकेषु 'णं' इति पूर्ववत् बहवो वानमन्तरा देवा देव्यश्च यथासुखमासते शेरते-दीर्घकायप्रसारणेन वर्तन्ते न तु निद्रां कुर्वन्ति तेषु देवयोनिकतया निद्राऽभावात् , तिष्ठन्ति-ऊर्ध्वस्थानेन वर्त्तन्ते, निषीदन्ति-उपविशन्ति, 'तुयटुंति' इति त्वग्वर्त्तनं कुर्वन्ति-वामपार्श्वतः परावृत्य दक्षिणपाइँन तिष्ठन्ति दक्षिणपार्श्वतो वा परावृत्य वामपाāनावतिष्ठन्ते, रमन्ते-रतिमाबध्नन्ति, ललन्ति-मनईप्सितं यथा भवति तथा वर्तन्ते इति भावः, क्रीडन्ति-यथासुखमितस्ततो गमनविनोदेन गीतनृत्यादिविनोदेन वा तिष्ठन्ति, मोहन्ति-मैथुनसेवां कुर्वन्ति इत्येवम् , 'पुरा पोराणाणं' इत्यादि, पुरा-पूर्वं प्राग्भवे इति भावः । कृतानां कर्मणामिति योगः । अत एव पौराणानां सुचीर्णानां-सुचरितानामिह
१. जीवा./३प्र.।
D:\ratan.pm5\5th proof