________________
[श्रीविचाररत्नाकरः इत्यादि, कति भदन्त ! पुष्पजातिकुलकोटिशतसहस्राणि प्रज्ञप्तानि ?, भगवानाहगौतम ! षोडशपुष्पजातिकुलकोटिशतसहस्राणि प्रज्ञप्तानि, तद्यथा-चत्वारि जलजानां पद्मानां जातिभेदेन, चत्वारि स्थलजानां कोरण्टकादीनां जातिभेदेन, चत्वारि महागुल्मिकादीनां जात्यादीनाम् , चत्वारि महावृक्षाणां मधूकादीनामिति । 'कइ णं' इत्यादि, कति भदन्त ! वल्लयः ? कति वल्लिशतानि प्रज्ञप्तानि ?, भगवानाह-गौतम ! चतस्रो वल्लयः स्रग्पुष्पादिमूलभेदेन, ताश्च मूलटीकाकृता वैविक्त्येन न व्याख्याता इति सम्प्रदायादवसेयाः, चत्वारि वल्लिशतान्येवान्तरजातिभेदेन । 'कइ णं' इत्यादि, कति भदन्त ! लताः कति लताशतानि प्रज्ञप्तानि?, भगवानाह-गौतम ! अष्टौ लता नागलताद्या या मूलभेदेन ता अपि सम्प्रदायादवगन्तव्याः मूलटीकाकारेणाव्याख्यानात् , अष्टौ लताशतानि प्रज्ञप्तानि अवान्तरजातिभेदेन । 'कइ णं' इत्यादि. कति भदन्त ! हरितकायाः कति हरितकायशतानि प्रज्ञप्तानि ? भगवानाह-गौतम ! त्रयो हरितकायाः प्रज्ञप्ताः जलजा स्थलजाः उभयजाः, एकैकस्मिन् शतमवान्तरभेदानामिति, त्रीणि हरितकायशतानि । 'फलसहस्सं च' इत्यादि, फलसहस्रं च वृन्तबद्धानां वृन्ताकप्रभृतीनां, फुलसहस्रं च नालबद्धानाम् , 'ते वि सव्वे' इत्यादि, तेऽपि सर्वे भेदाः, अपिशब्दादन्येऽपि तथाविधा हरितकायमेव समवतरन्ति, हरितकायेऽन्तर्भवन्ति, हरितकायोऽपि वनस्पती, वनस्पतिरपि स्थावरेषु , स्थावरा अपि जीवेषु । तत एवं समनुगम्यमानाः समनुगम्यमानाः तथा जात्यन्तर्भावेन स्वत एव सूत्रतः, तथा समनुग्राह्यमानाः समनुग्राह्यमानाः परेण सूत्रत एव, तथा समनुप्रेक्ष्यमाणाः समनुप्रेक्ष्यमाणाः अनुप्रेक्षया-अर्थालोचनरूपया, तथा समनुचिन्त्यमानाः समनुचिन्त्यमानाः तथा तथा तन्त्रयुक्तिभिरेतयोरेव द्वयोः काययोः समवतरन्ति, तद्यथा-त्रसकाये च स्थावरकाये च, 'एवामेव' इत्यादि, एवमेव उक्तेनैव प्रकारेण 'सपुव्वावरेणं' ति, पूर्वं चापरं च पूर्वापरं सह पूर्वापरं येन स सपूर्वापर उक्तप्रकारस्तेन उक्तविषयपूर्वापरपर्यालोचनयेति भावार्थः । 'आजीवगदिटुंतेणं' ति, आ-सकलजगदभिव्याप्त्या जीवानां यो दृष्टान्तः-परिच्छेदः स आजीवदृष्टान्तस्तेन सकलजीवनिदर्शनेनेत्यर्थः, आह च मूलटीकाकार:-आजीवकदृष्टान्तेन सकलजीवनिदर्शनेने'ति चतुरशीतिजातिकुलकोटियोनिप्रमुखशतसहस्राणि भवन्तीत्याख्यातं मया अन्यैश्च ऋषभादिभिरिति । अत्र चतुरशीतिसङ्ख्योपादानमुपलक्षणं, तेनान्यान्यपि जातिकुलकोटियोनिप्रमुखशतसहस्राणि वेदितव्यानि, तथा हि-पक्षिणां द्वादशजातिकुलकोटियोनि
D:\ratan.pm5\5th proof