________________
श्रीविचाररत्नाकरे मध्यभागे तृतीयस्तरङ्गः]
[१४३ 'चउरिंदियाणं' इत्यादि, चतुरिन्द्रियाणां भदन्त ! कति जातिकुलकोटियोनिप्रमुखशतसहस्राणि प्रज्ञप्तानि ? भगवानाह-गौतम ! नवजातिकुलकोटियोनिप्रमुखशतसहस्राणि प्रज्ञप्तानि, एवं त्रीन्द्रियाणामष्टौ जातिकुलकोटियोनिप्रमुखशतसहस्राणि, द्वीन्द्रियाणां सप्तजातिकुलकोटियोनिप्रमुखशतसहस्राणि प्रज्ञप्तानि । इह जातिकुलकोट्यो योनिजातीयास्ततो भिन्नजातीयाभिधानप्रसङ्गतो गन्धाङ्गानि भिन्नजातीत्यत्वात् प्ररूपयति-'कइ णं' इत्यादि, कति भदन्त ! गन्धाङ्गानि क्वचिद् गन्धा इति पाठः तत्र ‘पदैकदेशे पदसमुदायोपचारात्' गन्धा इति गन्धाङ्गानीति द्रष्टव्यानि प्रज्ञप्तानि ? तथा गन्धाङ्गशतानि प्रज्ञप्तानि? भगवानाह-गौतम ! सप्त गन्धाङ्गानि सप्त गन्धाङ्गशतानि प्रज्ञप्तानि, इह सप्त गन्धाङ्गानि परिस्थूरजातिभेदादमूनि, तद्यथा-मूलं १ त्वक् २ काष्ठं ३ निर्यासः ४ पत्रं ५ पुष्पं ६ फलं ७ च । तत्र मूलं मुस्ताबालकोशीरादि १, त्वक् सुवर्णच्छल्लीत्वचाप्रभृति २, काष्ठं चन्दनागुरुप्रभृति ३, निर्यासः कर्पूरादि ४, पत्रं जातिपत्रतमालादि ५, पुष्पं प्रियङ्गनागरपुष्पादि ६, फलं जातिफलकर्कोलकैलालवङ्गप्रभृति ७, एते च वर्णमधिकृत्य प्रत्येकं कृष्णादिभेदात् पञ्चपञ्चभेदा इति वर्णपञ्चकेन गुण्यन्ते जाताः पञ्चत्रिंशत् , गन्धचिन्तायामेते सुरभिगन्धय एवेत्येकेन गुणिताः पञ्चत्रिंशज्जाताः पञ्चत्रिंशदेव 'एकेन गुणितं तदेव भवतीति न्यायात् , तत्राप्येकैकस्मिन् वर्णभेदे रसपञ्चकं द्रव्यभेदेन विविक्तं प्राप्यते इति सा पञ्चत्रिंशत् रसपञ्चकेन गुण्यते जातं पञ्चसप्ततिशतम् , स्पर्शाश्च यद्यप्यष्टौ भवन्ति तथाऽपि गन्धाङ्गेषु यथोक्तरूपेषु प्रशस्या व्यवहारतश्चत्वार एव मृदुलघुशीतोष्णरूपाः, ततः पञ्चसप्ततिशतं स्पर्शचतुष्टयेन गुण्यते, जातानि सप्तशतानि । उक्तं च
"मूलतयकट्ठनिज्जास-पत्तपुष्फलफलमेयं गंधंगा।
वण्णादुत्तरभेया, गंधंगसया मुणेयव्वा" ॥१॥ [जीवा./३-१/१३१वृ.] अस्या व्याख्यानरूपं गाथाद्वयम्
"मुत्था१ सुवण्णच्छल्ली२, अगुरू३ बाला४ तमालपत्तं५ च । तह य पियंगू६ जाईफलं७ च जाईए गंधंगा ॥१॥ [जीवा./३-१/१३१व.] गुणणाए सत्तसया, पंचहि वण्णेहिं सुरभिगंधेणं ।
रसपणगेणं तह फासेहि य चउहि पसत्थेहि" ॥२॥ [ जीवा./३-१/१३१वृ.] अत्र 'जाईए गंधंगा' इति जात्या-जातिभेदेनामूनि गन्धाङ्गानि, शेषं भावितम् । 'कइ ण'
D:\ratan.pm5\5th proof