________________
[श्रीविचाररत्नाकरः भावादनेकानि योनिप्रवाहाणि जातिकुलानि सम्भवन्तीति उत्पद्यन्ते खचरपञ्चेन्द्रितिर्यग्योनिजानां द्वादशजातिकुलकोटिशतसहस्राणि, अत्र सङ्ग्रहणीगाथा
"जोणीसंगहलेस्सा, दिट्ठी नाणे य जोग उवओगे।
उववाय ठिई समुग्घाय चवण जाई कुलविहिओ" ॥ [सं.गा.] अस्या अक्षरगमनिका-प्रथमं योनिसङ्ग्रहद्वारं, ततो लेश्याद्वारं, ततो दृष्टिद्वारमित्यादि । 'भुयगाणं भंते !' इत्यादि, भुजगानां भदन्त ! कतिविधो योनिसङ्ग्रहः प्रज्ञप्तः? इत्यादि पक्षिवत् सर्वं–निरवशेषं वक्तव्यम् , नवरं स्थितिच्यवनकुलकोटिषु नानात्वं, तद्यथास्थितिर्जघन्येनान्तर्मुहूर्त, उत्कर्षतः पूर्वकोटी, च्यवनं-उद्वर्त्तना, तत्र नरकगतिचिन्तायामधो यावद्वितीया पृथिवी, उपरि यावत्सहस्रारकल्पस्तावदुत्पद्यते, नव तेषां जातिकुलकोटियोनिप्रमुखशतसहस्राणि प्रज्ञप्तानि, एवमुर:परिसर्पाणामपि वक्तव्यम् , नवरं तत्र च्यवनद्वारेऽधश्चिन्तायां यावत्पञ्चमी पृथिवीति वक्तव्यम् , कुलकोटिचिन्तायां दशजातिकुलकोटियोनिप्रमुखशतसहस्राणि प्रज्ञप्तानि । 'चउप्पयाणं' इत्यादि, चतुष्पदानां भदन्त ! कतिविधो योनिसङ्ग्रहः प्रज्ञप्तः ? भगवानाह-गौतम ! द्विविधो योनिसङ्ग्रहः प्रज्ञप्तः, तद्यथा-पोतजाः सम्मूच्छिमाश्च, इह ये अण्डजव्यतिरिक्ता गर्भव्युत्क्रान्ताः, ते सर्वे जरायुजाः अजरायुजा वा पोतजा इति विवक्षितमतोऽत्र द्विविधो यथोक्तस्वरूपो योनिसङ्ग्रहः उक्तः, अन्यथा गवादीनां जरायुजत्वात्तृतीयोऽपि जरायुजलक्षणो योनिसङ्ग्रहो वक्तव्यः स्यादिति, तत्र ये पोतजास्ते त्रिविधाः प्रज्ञप्ताः, तद्यथा-स्त्रियः पुरुषा नपुंसकाश्च, तत्र ये ते सम्मूर्छिमास्ते सर्वे नपुंसकाः, शेषद्वारकलाप: पूर्ववत् , नवरं स्थितिर्जघन्येनान्तर्मुहूर्तमुत्कर्षतस्त्रीणि पल्योपमानि, च्यवनद्वारेऽधश्चिन्तायां यावच्चतुर्थी पथिवी. ऊदर्ध्वं यावत्सहस्रार:. जातिकलकोटियोनिप्रमखशतसहस्राणि अत्रापि दश । 'जलचराणां' इत्यादि, जलचराणां भदन्त ! कतिविधो योनिसङ्ग्रहः प्रज्ञप्तः ? भगवानाह-गौतम ! त्रिविधो योनिसङ्ग्रह: प्रज्ञप्तः, तद्यथा-अण्डजाः पोतजाः सम्मूच्छिमाश्च, अण्डजास्त्रिविधाः प्रज्ञप्ताः, तद्यथा-स्त्रियः पुरुषा नपुंसकाश्च, पोतजास्त्रिविधाः प्रज्ञप्ताः, तद्यथा-स्त्रियः पुरुषा नपुंसकाश्च, तत्र ये ते सम्मूच्छिमास्ते सर्वे नपुंसकाः । शेषद्वारकलापचिन्ता प्राग्वत् , नवरं स्थितिच्यवनजातिकुलकोटिषु नानात्वम् , स्थितिर्जघन्येनान्तर्मुहूर्तमुत्कर्षतः पूर्वकोटी, च्यवनद्वारेऽधश्चिन्तायां यावत्सप्तमी ऊर्ध्वं यावत्सहस्रारः, कुलकोटियोनिप्रमुखशतसहस्राणि अर्द्धत्रयोदशसार्द्धानि द्वादशेत्यर्थः ।
D:\ratan.pm5\5th proof