________________
श्रीविचाररत्नाकरे मध्यभागे
॥ द्वितीयस्तरङ्गः ॥ यस्मात्प्रादुर्भवद्रत्नैरयत्नै ष्यते सताम् ।
कण्ठपीठं नमस्तस्मै, श्रुतरोहणभूभृते ॥१॥ अथ राजप्रश्नीयविचारा यथा
श्रोत्रस्य द्वादशयोजनपरिमिते विषये सत्यपि दिव्यानुभावतोऽधिकविषयताऽपि श्रूयते । तथा हि
तए णं से पाइत्ताणियाहिवई देवे सूरियाभेणं देवेणं एवं वुत्ते समाणे हट्ठ जाव हियए एवं देवो तह त्ति आणाए विणएणं वयणं पडिसुणेति पडिसुणेत्ता जेणेव सूरियाभे विमाणे जेणेव सभा सुहम्मा जेणेव मेघोघरसियगंभीरमहुरसद्दा जोयणपरिमंडला सुस्सरा घंटा तेणेव उवागच्छति उवागच्छिता तं मेघोघरसियं गंभीरमहुरसदं जोयणपरिमंडलं सुस्सरं घंटं तिक्खुत्तो उल्लालेइ । तते णं तीसे मेघोघरसियगंभीरमहुरसदाए जोयणपरिमंडलाए सुस्सराए घंटाए तिक्खुत्तो उल्लालियाए समाणीए से सूरियाभे विमाणे पासायविमाणा निक्खुडावडियसद्दघंटापडिसुयसयसहस्ससंकुला जाया यावि होत्थ त्ति । वृत्तिर्यथा-'तए णं से' इत्यादि, 'जाव पडिसुणेत्ता' इति, अत्र यावच्छब्दकरणात् 'करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्ट [एवं देवो तह त्ति आणाए विणएणं वयणं पडिसुणेति] इति द्रष्टव्यम् । 'तिक्खुत्तो उल्लालेइ'त्ति त्रिःकृत्व:-त्रीन् वारान् उल्लालयति-ताडयति । ततो 'ण'मिति वाक्यालङ्कारे तस्यां-मेघौघरसितगम्भीरमधुरशब्दायां योजनपरिमण्डलायां सुस्वराभिधानायां घण्टायां त्रिःकृत्वस्ताडितायां सत्यां यत्सूर्याभविमानं तत्प्रसादनिष्कुटेषु च ये आपतिताः शब्दाः-शब्दवर्गणापुद्गलास्तेभ्यः समुच्छलितानि यानि घण्टाप्रतिश्रुतशतसहस्राणि घण्टाप्रतिशब्दलक्षाणि तैः सङ्कलमपि जातमभूत् । किमुक्तं भवति ?
१. राजप्रश्नीय./१२सू. ।
D:\ratan.pm5\5th proof