________________
[श्रीविचाररत्नाकरः घण्टायां महता प्रयत्नेन ताडितायां ये विनिर्गताः शब्दपुद्गलास्तत्प्रतिघातवशत: सर्वासु दिक्षु विदिक्षु च दिव्यानुभावतः समुच्छलितैः प्रतिशब्दैः सकलमपि विमानमनेकयोजनलक्षमानमपि बधिरितमुपजायते इति । एतेन द्वादशभ्यो योजनेभ्यः समागतः शब्दः श्रोत्रग्राह्यो भवति न परतः, ततः कथमेकत्र ताडितायां घण्टायां सर्वत्र तच्छब्दश्रुतिरुपजायत इति यच्चोच्यते तदपाकृतमवसेयम् , सर्वत्र दिव्यानुभावतस्तथारूपप्रतिशब्दोच्छलने यथोक्तदोषासंभवात् । इति श्री राजप्रश्नीयोपाङ्गवृत्ति ८६ प्रतौ २२ पत्रे ॥३॥
अथ जिनप्रतिमासत्ताक्षराणि लिख्यन्ते
१तीसे णं मणिपेढियाए उवरिं इत्थ णं महेगे देवच्छंदए पण्णत्ते सोलसजोयणाई आयामविक्खंभेणं साइरेगाइं सोलसजोयणाइं उठें उच्चत्तेणं सव्वरयणामए जाव पडिरूवे एत्थ णं अट्ठसयं जिणपडिमाणं जिणुस्सेहप्पमाणमेत्ताणं सन्निक्खित्तं संचिट्ठइ' इति । वृत्तिर्यथा-'तीसे णं' इत्यादि तस्याश्च मणिपीठिकाया उपरि, अत्र महानेको देवच्छन्दक: प्रज्ञप्तः । स च षोडशयोजनान्यायामविष्कम्भाभ्यां सातिरेकाणि षोडशयोजनानि ऊर्ध्वमुच्चस्त्वेन 'सव्वरयणामए' इत्यादि प्राग्वत् , तत्र च देवच्छन्दके अष्टशतं-अष्टाधिकं शतं जिनप्रतिमानां जिनोत्सेधप्रमाणमात्राणां पञ्चधनुःशतप्रमाणानामिति भावः । इति श्रीराजप्रश्नीयोपाङ्गवृत्ति ११० प्रतौ ६४ पत्रे ॥२॥
___ ननु भवन्तु ताः शाश्वत्यो जिनप्रतिमा विमानाभरणादिवत् , किमेतावता ? अत्रोच्यते-अरे वावदूक ! शाश्वतान्यपि विमानानि अवस्थानाय, आभरणानि परिधानाय भवन्ति तथा प्रतिमाः कस्मै कत्याय भवन्ति ? वन्दनायैवेति चेदागतं वन्द्यत्वं तथा चागमः
तए णं तस्स सूरियाभस्स देवस्स सामाणियपरिसोववण्णगा देवा सूरियाभस्स देवस्स इमेयारूवमज्झत्थियं जाव समुप्पन्नं समभिजाणित्ता जेणेव सूरियाभे देवे तेणेव उवागच्छति उवागच्छित्ता सूरियाभं देवं करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ट जएणं विजएणं वद्धावेंति वद्धावित्ता एवं वयासी-एवं खलु देवाणुप्पियाणं सूरियाभे विमाणे सिद्धाययणंसि जिणपडिमाणं जिणुस्सेहप्पमाणमेत्ताणं अट्ठसयं सन्निक्खित्तं चिट्ठति, सभाए णं सुहम्माए माणवए चेइए खंभे
१. राजप्रश्नीय./३९सू. । २. राजप्रश्नीय./४१सू. ।
D:\ratan.pm5\5th proof