________________
[श्रीविचाररत्नाकरः 'अन्नउत्थिए व'त्ति अन्ययूथिका-आर्हतसङ्घापेक्षयाऽन्ये शाक्यादयः 'चेइयाइं'त्ति अर्हच्चैत्यानि-जिनप्रतिमा इत्यर्थः । 'णन्नत्थ अरिहंतेहिं वत्ति न कल्पते इह योऽयं नेति निषेधः सोऽन्यत्रार्हद्भ्यः अर्हतो वर्जयित्वेत्यर्थः । इत्यौपपातिकसूत्रवृत्तौ ८३ प्रतौ ६७ पत्रे ॥२॥
इति श्रीमदकब्बरभूपालविशालचित्तालवालविवद्धितवृषरसालशालातिशालिशील
श्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे मध्यभागे श्रीऔपपातिकविचारनामा प्रथमस्तरङ्गः ॥१॥
D:\ratan.pm5\5th proof