________________
श्रीविचाररत्नाकरे मध्यभागे प्रथमस्तरङ्गः]
[१३१ समढे" इति । वृत्तिर्यथा-'जे इमे जीवा' इति ये इमे प्रत्यक्षासन्ना जीवा:पञ्चेन्द्रियतियङ्मनुष्यलक्षणाः, ग्रामाकरादयः प्राग्वत् , 'अकाम-तन्हाए'त्ति अकामानांनिर्जराधनभिलाषिणां सतां तृष्णा-तृट् अकामतृष्णा तया, एवमन्यत्पदद्वयम् , 'अकामअन्हाणगसीयातवदंसमसगसेयजल्लमल्लपंकपरितावेणं' इह स्वेदः-प्रस्वेदो, याति-लगति चेति 'जल्लो' रजोमात्रं, मल:-कठिनीभूतः, पङ्कः स एव स्वेदेनाद्रीभूतः, अस्नानकादयस्तु प्रतीताः, अस्नानकादिभिर्यः परितापः स तथा तेन 'अप्पतरो वा भुज्जतरो वा कालं'ति प्राकृतत्वेन विभक्तिपरिणामादल्पतरं वा भूयस्तरं वा कालं यावत् 'अन्नतरेसु'त्ति बहुनां मध्ये एकतरेषु 'वाणमंतरेसु'त्ति व्यन्तरेषु देवलोकेषुदेवजनेषु मध्ये, 'तहिं तेसिं गइ'त्ति तस्मिन् वानमन्तरे देवलोके तेषामसंयतादिविशेषणजीवानां गतिः-गमनं, 'ठिइ'त्ति अवस्थानं, ‘उववाओ'त्ति देवतया भवनं, 'इड्डी इ व' त्ति ऋद्धिः परिवारादिसंपत् । 'जुती इ व' त्ति द्युतिः-शरीराभरणादिदीप्तिः, इशब्दो निपातो वाक्यालङ्कारार्थः, इतिशब्दो वाऽयं कृतसन्धिप्रयोगउपदर्शनार्थः । 'जसे इ व' त्ति यश:ख्यातिः । वा शब्दो विकल्पार्थः, क्वचित् पठ्यते-'उट्ठाणे इ वा कम्मे इ व 'त्ति । तत्रोत्थानं-उर्वीभवनं, कर्मउत्क्षेपणादिका क्रिया, 'बले इव' त्ति बलं-शारीरः प्राणः, 'वीरिए इ व'त्ति वीर्यजीवप्रभवः प्राण एव, 'पुरिसक्कारपरक्कमे इ व' त्ति पुरुषकारः पुरुषत्वाभिमानः स एव निष्पादितफलः पराक्रमः, हन्ते ति' एवमेवार्थः, 'तेणं देवा परलोगस्स आराहग'त्ति ते अकामनिर्जरालब्धदेवभवा व्यन्तराः परलोकस्य-जन्मान्तरस्य निर्वाणसाधनानुकूलस्याराधका:-निष्पादकाः इति प्रश्नः, नो इणट्रेत्ति नायमर्थः 'समटे'त्ति समर्थ:-सङ्गतः इत्युत्तरम् , अयमभिप्राय:-ये हि सम्यग्दर्शनज्ञानपूर्वकानुष्ठानतो देवाः स्युः त एव अवश्यंतया आनन्तर्येण पारम्पर्येण वा निर्वाणानुकूलं भवान्तरमावर्जयन्ति, तदन्ये तु भाज्याः । इत्यौपपातिकसूत्रवृत्तौ ७० प्रतौ ६२ पत्रे ॥१॥
पुनरपि जिनप्रतिमारिपुप्रतिबोधाय अम्बडेन यथा अन्यतीर्थिकदेवान्यतीर्थिकपरिगृहीतार्हत्प्रतिमानिषेधपूर्वकमर्हत्प्रतिमावन्दनाद्यङ्गीकृतं, तथा लिख्यते
१"अम्मडस्स णो कप्पइ अन्नउत्थिया वा अन्नउत्थियदेवयाणि वा अन्नउत्थियपरिग्गहियाणि अरिहंतचेइयाणि वा वंदित्तए वा नमंसित्तए वा जाव पज्जुवासित्तए वा णन्नत्थ अरिहंते वा अरिहंतचेइयाणि वा" इति । वृत्तिर्यथा
१. औपपातिक./५०सू.।
D:\ratan.pm5\5th proof