________________
श्रीविचाररत्नाकरे मध्यभागे
॥ प्रथमस्तरङ्गः ॥ पदैस्त्रिभिर्येन समस्तमेतत् त्रैलोक्यमाक्रान्तमहो महीयः।
सनातनं तं नरकान्तकं च, सिद्धान्तगोविन्दमहं श्रयामि ॥१॥ अथानुक्रमायाता उपाङ्गविचाराः प्रस्तूयन्ते । तत्र प्रथममौपपातिकविचारा यथा
केचिच्चाविदितसूत्रतात्पर्याः 'जीवे णं भंते ! असंजय' इत्यादिसूत्रं दर्शयन्तोऽकामनिर्जरालब्धदेवभवा जन्मान्तराराधका न भवन्त्येवेति निश्चयं वदन्ति तच्चासङ्गतं, टीकायां भाज्या, इति व्याख्यातत्वात् । सटीकं सूत्रं चेदम्
___ १"जीवे णं भंते ! असंजए अविरए अपडिहयपच्चक्खायपावकम्मे इतो चुए पेच्चा देवे सिया ? गोयमा ! अत्थेगतिया देवे सिया अत्थेगतिया णो देवे सिया । से केणटेणं भंते ! एवं वुच्चति-अत्थेगतिया देवे सिया अत्थेगतिया णो देवे सिया ? गोयमा ! जे इमे जीवा गामागरनगरनिगमरायहाणिखेडकब्बडमडंबदोणमुहपट्टणासमसंबाहसन्निवेसेसु अकामतन्हाए अकामच्छुहाए अकामबंभचेरवासेणं अकामअन्हाणकसीयातवदंसमसगसेयजल्लमल्लपंकपरितावेणं अप्पतरो वा भुज्जतरो वा कालं अप्पाणं परिकिलेस्संति अप्पतरो भुज्जतरो वा कालं अप्पाणं परिकिलेसित्ता कालमासे कालं किच्चा अन्नतरेसु वाणमंतरेसु देवलोएसु देवत्ताए उववत्तारो भवंति, तहिं तेसिं गती तहिं तेसिं ठिती तहिं तेसिं उववाए पण्णत्ते । तेसि णं भंते ! देवाणं केवतियं कालं ठिती पण्णत्ता? गोयमा ! दसवाससहस्साई ठिती पण्णत्ता । अस्थि णं भंते ! तेसिं देवाणं इड्डी इ वा जुती इ वा जसे ति वा बले ति वा वीरिए ति वा पुरिसक्कारपरक्कमे ति वा? हंता अत्थि । ते णं भंते ! देवा परलोगस्साराहगा?णो इणद्वे
१. औपपातिक./४४सू. ।