________________
श्रीविचाररत्नाकरे प्राच्यतटे दशमस्तरङ्गः]
[१२५ "अच्छेद्योऽयमभेद्योऽयममूर्तोऽयं सनातनः" [ ] इति । असच्चैतदेकान्तनित्यत्वे हि सुखदुःखबन्धमोक्षाद्यभावप्रसङ्गात् , तथा निष्क्रियः सर्वव्यापित्वेनावकाशाभावाद्गमनागमनादि क्रियावर्जितः, असच्चैतद्देहमात्रोपलभ्यमानतद्गुणत्वेन तन्नियतत्वात् , तथा निर्गुणश्च सत्वरजस्तमोलक्षणगुणत्रयव्यतिरिक्तत्वात् प्रकृतेरेव ह्येते गुणा इति, यदाह"अकर्ता निर्गुणो भोक्ता, आत्मा कपिलदर्शने' । [ ] इति । असिद्धं चास्य सर्वथा निर्गुणत्वं 'चैतन्यं पुरुषस्य स्वरूपं' इति अभ्युपगमात् , तथा 'अणुवलेवउत्ति अनुपलेपकः कर्मबन्धनरहितः । आह च
“यस्मान्न बध्यते नापि, मुच्यते नापि संसरति कश्चित् ।
संसरति बध्यते मुच्यते च, नानाश्रया प्रकृतिः" ॥ [ ] इति, असच्चैतन्मुक्तामुक्तयोरेवमविशेषप्रसङ्गात् , पाठान्तरम्-'अन्नो य लेवउ'त्ति तत्रान्यश्चापरो लेपतः कर्मबन्धनादिति, एतदप्यसत् कथञ्चिदिति शब्दानुपादानात् , इत्यपि च, इतिउपदर्शने अपि च-अलीकवादान्तरसमुच्चयार्थः, तथा एवं वक्ष्यमाणप्रकारेण 'आहंसु' त्ति ब्रुवते स्म असद्भावं-असन्तमर्थं यदुत यदपि-यदेव सामान्यतः सर्वमित्यर्थः, इहअस्मिन् किञ्चिद्-अविवक्षितविशेषं जीवलोके-मर्त्यलोके दृश्यते, सुकृतं वा आस्तिकमतेन सुकृतफलं सुखमित्यर्थः, दुष्कृतं वा दुष्कृतफलं दु:खमित्यर्थः, एतत् 'जइच्छाए व' त्ति यदृच्छया वा स्वभावेन चापि दैवतप्रभावतो वाऽपि-विधिसामर्थ्यतो वाऽपि भवति, न पुरुषकारः कर्म वा हिताहितनिमित्तमिति भावः, तत्र अनभिसन्धिपूर्विकार्थप्राप्तिर्यदृच्छा । पठ्यते च
"अतर्कितोपस्थितमेव सर्वं, चित्रं जनानां सुखदुःखजातम् ।
काकस्य तालेन यथाऽभिघातो, न बुद्धिपूर्वोऽत्र वृथाऽभिमानः" ॥१॥[ ] तथा-"सत्यं पिशाचा: स्म वने वसामो, भेरी कराग्रैरपि न स्पृशामः ।
यदृच्छया सिध्यतिलोकयात्रा,भेरी पिशाचा: परिताडयन्ति"॥२॥[लो.नि./१०६] इति । स्वभावः पुनर्वस्तुतः स्वत एव तथापरिणतिभावः, उक्तं च
"कः कण्टकानां प्रकरोति तैक्ष्ण्यं, विचित्रभावं मृगपक्षिणां च ।
स्वभावतः सर्वमिदं प्रवृत्तं,न कामचारोऽस्ति कुतः प्रयत्नः?"॥३॥[ लो.नि./९६ ] इति । दैव-विधिरिति लौकिकी भाषा, तत्रोक्तम्
"प्राप्तव्यमर्थं लभते मनुष्यः, किं कारणं दैवमलङ्घनीयम् । तस्मान्न शोचामि न विस्मयो मे, यदस्मदीयं न हि तत्परेषाम् ॥४॥[ ]
D:\ratan.pm5\5th proof