________________
[श्रीविचाररत्नाकरः द्वीपादन्यस्मादपि, मध्यादपि जलनिधेर्दिशोऽप्यन्तात् ।
आनीय झटिति घटयति, विधिरभिमतसभिमुखीभूतः" ॥५॥ [ ] इति । असद्भूतता चात्र प्रत्येकमेषां, जिनमतप्रतिकुष्टत्वात् , तथाहि
"कालो सहाव नियई, पुवकयं पुरिसकारणेगंता ।
मिच्छत्तं ते चेव उ, समासओ होंति सम्मत्तं" ॥१॥ [उ.प./१६४] इति । तथा नास्ति-न विद्यतेऽत्र लोके किञ्चिच्छुभमशुभं वा कृतकं-पुरुषकारनिष्पन्नं, कृतं-च कार्य प्रयोजनमित्यर्थः, पाठान्तरेण–'नत्थि किंचि कयकं तत्तं' तत्र तत्त्वं वस्तुस्वरूपमिति. तथा लक्षणानि-वस्तरूपाणि विधाश्च-भेदा लक्षणविधाः तासां लक्षणविधानाम नियतिश्च-स्वभावविशेषश्च कारिका-की, सा च पदार्थानामवश्यन्तया यद्यथा भवने प्रयोजयित्री भवितव्यतेत्यर्थः । अन्ये त्वाहः-यद मुद्गादीनां राद्धिस्वभावत्वमितरद्धा स स्वभावः यच्च राद्धावपि नियतरसत्वं न शाल्यादिरसता सा नियतिरिति, तत्र चोक्तम्
"न हि भवति यन्न भाव्यं, भवति च भाव्यं विनाऽपि यत्नेन ।
करतलगतमपि नश्यति, यस्य तु भवितव्यता नास्ति" ॥१॥[ ] असत्यता चास्य पूर्ववद्वाच्या, एवमित्युक्तप्रकारेण केचिन्नास्तिकादयो जल्पन्तिऋद्धिरससातगौरवपरा ऋद्धयादिषु गौरवं-आदरस्तत्प्रधाना इत्यर्थः । इति श्रीप्रश्नव्याकरणद्वितीयाश्रवद्वारवृत्तौ ८६ प्रतौ १६-१७-१८-१९ । पत्रे ॥१॥
___ननु सांसारिककार्यनिमित्तं द्रौपद्यादिभिः पूजितत्वात् संसारनिमित्तमेव प्रतिमा दृश्यन्ते, न तु मुक्तिनिमित्तम् , यदि च मुक्तिनिमित्तं स्यात्तदा मुनीनामपि कुत्रापि निरवद्यं प्रतिमावन्दनमप्युक्तं स्यात् , अत्रोच्यते-अरे कुमतग्रस्त ! मुनीनामपि अत्यन्तबालादीनां चैत्यान्तानां यथोचितं वैयावृत्त्यं कर्त्तव्यमुक्तम् , तत्र चैत्यस्य तु अन्नादिसंपादनादिकं शरीरविश्रामणादिकं चायौक्तिकमिति वन्दनस्तवनादिकमेव तद्वैयावृत्त्यं, ततो मुनीनामपि चैत्यवन्दनस्तवनमुक्तमेव द्रष्टव्यम् । वैयावृत्त्यसूत्रं चेदम्
१अह केरिसए पण्णाडं आराहड वयमिणं? जे से उवहिभत्तपाणसंगहणादाणकुसले अच्चंतबाल १ दुब्बल २ गिलाण ३ वुड्ड ४ खवगे ५ पवत्ति ६ आयरिय ७ उवज्झाए ८ सेहे ९ साहम्मिए १० तवस्सी ११ कुल १२ गण १३ संघ १४ चेइयढे १५ निज्जरट्ठी वेयावच्चं अणिस्सियं दसविहं बहुविहं करेइ ॥ इति ।
१. प्रश्न.श्रु.२/अ.३/३८सू. ।
D:\ratan.pm5\5th proof