________________
१२४]
[श्रीविचाररत्नाकरः एवंविहे जगंमी, पेच्छइ निग्गोहपायवं सहसा । मंदरगिरिं व तुंगं महासमुद्द व विच्छिन्नं ॥५॥ [ ] खंधमि तस्य सयणं, अच्छइ तहिं बालओ मणभिरामो' । संविद्धो सुद्धहियओ मिउकोमलकुंचियसुकेसो ॥६॥[ ] हत्थो पसारिओ से, महरिसिणा एहि तत्थ भणिओ य । खंधे ममं विलग्गसु , मा मरिहिसि उदगवुड्डीए ॥७॥ [ ] तेण य घेत्तुं हत्थे, उ मीलिओ सो रिसि तओ तस्स ।
पिच्छइ उदरंमि जयं ससेलवणकाणणं सव्वं" ॥८॥ [ ] ति । पुनः सृष्टिकाले विष्णुना सृष्टम् , कुदर्शनता चास्य प्रतीतिबाधितत्वात् , तथा एवं वक्ष्यमाणेन न्यायेन एके-केचनात्माऽद्वैतवाद्यादयो वदन्ति मृषा-अलीकं यदुत एक आत्मा । तदुक्तम्
"एक एव हि भूतात्मा, भूते भूते व्यवस्थितः ।।
एकधा बहुधा चैव, दृश्यते जलचन्द्रवत्" ॥१॥[ ] तथा "पुरुष एवेदं ग्नि सर्व यद्भूतं यच्च भाव्यम्' [ ] इत्यादि । कुदर्शनता चास्य सकललोकविलोक्यमानभेदनिबन्धनव्यवहारोच्छेदप्रसङ्गात् , तथा अकारकः-सुखदुःखहेतूनां पुण्यपापकर्मणामकर्त्तात्मेत्यन्ये वदन्ति, अमूर्त्तत्वनित्यत्वाभ्यां कर्तृत्वानुपपत्तेरिति, कुदर्शनता चास्य संसार्यात्मनो मूर्त्तत्वेन परिणामित्त्वेन च कर्तृत्वोपपत्तेः, अकर्तृत्वे च अकृताभ्यागमप्रसङ्गात् , तथा वेदकश्च-प्रकृतिजनितस्य सुकृतस्य दुष्कृतस्य च 'प्रतिबिम्बोदय'न्यायेन भोक्ता, अमूर्त्तत्वे हि कदाचिदपि वेदकता न युक्ताऽऽकाशस्येवेति कुदर्शनताऽस्य तथा सुकृतदुष्कृतस्य च कर्मणः करणानि-इन्द्रियाणि कारणानिहेतवः सर्वथा-सर्वप्रकारैः सर्वत्र देशे काले च न वस्त्वन्तरं कारणमिति भावः, करणान्येकादशः, तत्र वाक्पाणिपादपायूपस्थलक्षणानि पञ्च कर्मेन्द्रियाणि स्पर्शनादीनि तु पञ्च बुद्धीन्द्रियाणि एकादशं च मनः इति, एषां चाचेतनावस्थायामकारकत्त्वात्पुरुषस्यैव कारकत्वेन कुदर्शनत्वमस्य, तथा नित्यश्चासौ । यदाह
"नैनं छिन्दन्ति शस्त्राणि, नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो, न शोषयति (नैनं वहति) मारुतः ॥१॥ [लो.नि./८३]
१. विष्णुरित्यर्थः ।
D:\ratan.pm5\5th proof