________________
श्रीविचाररत्नाकरे प्राच्यतटे दशमस्तरङ्गः]
[१२३ तस्मिन्नेकार्णवीभूते, नष्टस्थावरजङ्गमे । नष्टामरनरे चैव, प्रणष्टोरगराक्षसे ॥२॥ [लो.नि./५४] केवलं गह्वरीभूते, महाभूतविवर्जिते । अचिन्त्यात्मा विभुस्तत्र, शयानस्तप्यते तपः ॥३॥ [ लो.नि./५५ ] तत्र तस्य शयानस्य, नाभे: पद्मं विनिर्गतम् । तरुणरविमण्डलनिभं, हृद्यं काञ्चनकर्णिकम् ॥४॥ [लो.नि./५६ ] तस्मिन् पद्मे भगवान् , दण्डी यज्ञोपवीतसंयुक्तः । ब्रह्मा तत्रोत्पन्नस्तेन जगन्मातरः सृष्टाः ॥५॥ [ लो.नि./५७] अदितिः सुरसङ्घानां, दितिरसुराणां मनुर्मनुष्याणाम् । विनता विहङ्गमानां, माता विश्वप्रकाराणाम् ॥६॥ [लो.नि./५८ ] कद्रुः सरीसृपाणां, सुलसा माता च नागजातीनाम् ।
सुरभिश्चतुष्पदानामिला पुनः सर्वबीजानाम्" ॥७॥ [ लो.नि./५९] इति । एवमुक्तक्रमेणैतदनन्तरोदितं वस्तु अलीकं भ्रान्तज्ञानिभिः प्ररूपितत्वात् , तथा प्रजापतिना-लोकप्रभुणा ईश्वरेण च-महेश्वरेण च कृतं-विहितमिति केचिद्वादिनो भणन्तीति प्रकृतं, भणन्ति चेश्वरवादिन:-बुद्धिमत्कारणपूर्वकं जगत् संस्थानविशेषयुक्तत्वात् घटादिवदिति, कुदर्शनता चास्य वल्मीकबुबुदादिभिर्हेतोरनैकान्तिकत्वात् , कुलालादितुल्यस्य बुद्धिमत्कारणस्य साधनेन चेष्टविघातकारित्वादिति, तथा एवं यथा ईश्वरकृतं तथा विष्णुमयं-विष्ण्वात्मकं कृत्स्नमेव जगदिति केचिद्वदन्तीति प्रकृतं, भणन्ति च एतन्मतावलम्बिनः
"जले विष्णुः स्थले विष्णुर्विष्णुः पर्वतमस्तके ।
ज्वालामालाकुले विष्णुः, सर्वं विष्णुमयं जगत्" ॥१॥ [ लो.नि./५१] तथा-"अहं च पृथिवी पार्थ ! वाय्वग्निजलमप्यहम् ।
___ वनस्पतिगतश्चाहं, सर्वभूतगतोऽप्यहम्" ॥२॥ [ ] तथा-"सो किल जलयसमुत्थेणुदएणेगन्नवंमि लोगंमि ।
वीतीपरंपरेणं घोलंतो उदयमझंमि" ॥३॥ [ ] स किल मार्कण्डर्षिः
"पेच्छइ सो तसथावरपणट्ठसुरनरतिरिक्खजोणीयं । एगन्नवं जगमिणं महाभूयविवज्जियं गुहिरं ॥४॥ [ ]
D:\ratan.pm5\5th proof