________________
१२]
[श्रीविचाररत्नाकरः गौतमादिमुनयः प्रमाणाविषयत्वादेव, वर्तमानकाले वा ऋषित्वस्य साध्वनुष्ठानस्यासत्त्वात् , सतोऽपि वा निष्फलत्वादिति । अत्र शिष्यादिप्रवाहानुमेयत्वादहदादिसत्त्वस्यानन्तरोक्तत्वात् वादिनामसत्यता । ऋषित्वस्यापि सर्वज्ञवचनप्रामाण्येन सर्वदा भावादित्याज्ञाग्राह्यार्थापलापिनां सर्वत्रासत्यवादिता भावनीयेति, तथा धर्माधर्मफलमपि नास्ति किञ्चिद् बहुकं वा स्तोकं वा, धर्माधर्मयोरदृष्टत्वेन नास्तित्वात् । “नत्थि फलं सुकय" [ ] इत्यादि, यदुक्तं प्राक् तत्सामान्यजीवापेक्षया यच्च 'धम्माधम्म' इत्यादि तदृश्यापेक्षयेति न पुनरुक्ततेति । 'तम्ह' त्ति यस्मादेवं तस्मादेवं-उक्तप्रकारं वस्तु विज्ञाय 'जहा सुबहुइंदियाणुकूलेसु' त्ति यथा-यत्प्रकाराः सुबहु-अत्यर्थमिन्द्रियानुकूला ये ते तथा तेषु सर्वेषु विषयेषु वर्तितव्यम् , नास्ति काचित् क्रिया वा-अनिन्द्यक्रिया अक्रिया वा-पापक्रिया पापेतरक्रिययोरास्तिककल्पितत्वेनापरमाथिकत्वात , भणन्ति च
"पिब खाद च चारुलोचने ! यदतीतं वरगात्रि ! तन्न ते ।
न हि भिरु ! गतं निवर्त्तते, समुदयमात्रमिदं कलेवरम्" ॥१॥ [ष.स./१६१] एवमित्यादि निगमनम् । तथा इदमपि द्वितीयं नास्तिकदर्शनापेक्षया कुदर्शनं कुमतमसद्भाववादिनः प्रज्ञापयन्ति मूढाः-व्यामोहवन्तः, कुदर्शनता च वक्ष्यमाणस्यार्थस्याप्रमाणत्वात्तद्वादिप्रोक्तप्रमाणस्य च प्रमाणाभासत्वाद्भावनीया, किम्भूतं दर्शनं ? इत्याहसम्भूतो-जातोऽण्डकात्-जन्तुयोनिविशेषात् लोक:-क्षितिजलानलानिलवननरनरकनाकितिर्यग्रूपः, तथा स्वयम्भूवा-ब्रह्मणा स्वयं च-आत्मना निर्मितो-विहितः तत्राण्डकप्रसूतभुवनवादिनां मतमित्थमाचक्षते
"पुव्वं आसि जगमिणं, पंचमहब्भ्यवज्जियगभीरं । एगणवं जलेणं, महप्पमाणं तहिं अंडं ॥१॥[ ] वीईपरेण घोलंत, अच्छिउं सुइरकालओ फुढें । फुट्ट दुभागजायं, अब्भं भूमी य संवुत्तं ॥२॥ [ ] तत्थ सुरासुरनारगसमणुयसचउप्पयं जगं सव्वं ।
उप्पण्णं भणियमिणं, बंभंडपुराणसत्थंमि" ॥३॥ [ ] तथा स्वयम्भूनिर्मितजगद्वादिनो भणन्ति
"आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अवितर्कामविज्ञेयं, प्रसुप्तमिव सर्वतः ॥१॥ [ लो.नि./६५ ]
D:\ratan.pm515th proof