________________
श्रीविचाररत्नाकरे प्राच्यतटे दशमस्तरङ्गः]
[१२१ "कण्टकस्य च तीक्ष्णत्वं, मयूरस्य विचित्रता ।
वर्णाश्च ताम्रचूडानां, स्वभावेन भवन्ति हि" ॥१॥[ ] इति । मृषावादिता चैवमेतेषाम्-स्वभावो हि जीवाद्यर्थान्तरभूतस्तदा प्राणातिपातादिजनितं कर्मैवासौ, अथानान्तरभूतस्ततो जीव एवासौ, तदव्यतिरेकात्तत्स्वरूपवत् , ततो निर्हेतुका नारकादिविचित्रता स्यात् , न च निर्हेतुकं किमपि भवति अतिप्रसङ्गादिति । तथा न नैरयिकतिर्यग्मनुजानां योनिः-उत्पत्तिस्थानं, पुण्यपापकर्मफलभूताऽस्तीति प्रकृतम् , न देवलोको वाऽस्तीति पुण्यकर्मफलभूतः नैवाऽस्ति सिद्धिगमनं सिद्धः सिद्धस्य चाभावात् , अम्बापितरावपि न स्तः उत्पत्तिमात्रनिबन्धनत्वात् मातापितृत्वस्य, न चोत्पत्तिमात्रनिबन्धनस्य मातापितृतया विशेषो युक्तः, यतः कुतोऽपि किञ्चिदुत्पद्यते एव, यथा-सचेतनात् सचेतनं यूकामत्कुणादि अचेतनं च मूत्रपुरीषादि, अचेतनाच्च सचेतनं यथा काष्ठाद् घुणकीटकादि अचेतनं च चूर्णादि, तस्माज्जन्यजनकभावमात्रमर्थानामस्ति नान्यो मातापितृपुत्रादिविशेष इति, तदभावात्तद्भोगविनाशापमाननादिषु न दोष इति भावः, मृषावादिता चैषां वस्त्वन्तरस्य पित्रोश्च जनकत्वे समानेऽपि तयोरत्यन्तहिततया विशेषवत्त्वेन सत्त्वात् , हितत्वं च तयोः प्रतीतमेव, आह च-"दुःप्रतिकारौ" [प्र.र./७१] इत्यादि, नाप्यस्ति पुरुषकारः, तं विनैव नियतितः सर्वप्रयोजनानां सिद्धेः, उच्यते च"प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवति न भाविनोऽस्ति नाशः" ॥१॥
[लो.नि./१०४] मृषावादिता चैषां सकललोकप्रतीतपुरुषकारापलापेन प्रमाणातीतनियतिमताभ्युपगमादिति । तथा प्रत्याख्यानमपि नास्ति धर्मसाधनतया धर्मस्यैवाभावादिति, अस्य च सर्वज्ञवचनप्रामाण्येनास्तित्वात्तद्वादिनामसत्यता । तथा नैवास्ति कालमृत्युः तत्र कालो नास्ति अनुपलम्भात् , यच्च वनस्पतिकुसुमादिकाललक्षणमाचक्षते तत्तेषां स्वरूपमिति मन्तव्यम, असत्यता चैषामपि स्वरूपस्य वस्तनोऽनतिरेकात कसमादिकरणमकारणं तरूणां स्यात् । तथा मृत्यु:-परलोकप्रयाणलक्षणोऽसावपि नास्ति, जीवाभावेन परलोकगमनाभावात् , अथवा कालक्रमेणविवक्षितायुष्ककर्मणः सामस्त्यनिर्जरावसरे मृत्युः कालमृत्युः, तदभावश्चायुष एवाभावात् , तथा अर्हदादयो 'नत्थि' त्ति न सन्ति प्रमाणाविषयत्वात् । 'नेव त्थि के वि रिसओ' त्ति नैव सन्ति केचिदपि ऋषयो
D:\ratan.pm5\5th proof