________________
[श्रीविचाररत्नाकरः तद्भावेऽपि तस्याभावाद्विवक्षितभूताभावेऽपि प्रेताद्यवस्थायां चैतन्यसद्भावाच्चेति । 'पंच य खंधे भणंति केई' त्ति पञ्च च स्कन्धान् रूपवेदनाविज्ञानसंज्ञासंस्काराख्यान् भणन्ति केचिदिति-बौद्धाः, तत्र रूपस्कन्धः-पृथिवीधात्वादयो रूपादयश्च वेदनास्कन्धः पुनःसुखा दुःखा सुखदुःखेति त्रिविधवेदनास्वभावः, विज्ञानस्कन्धस्तु-रूपादिविज्ञानलक्षणः, संज्ञास्कन्धश्च–संज्ञानिमित्तोद्ग्राहणात्मकः प्रत्ययः, संस्कारस्कन्धः पुनः-पुण्यापुण्यादि धर्मसमुदाय इति, न चैतेभ्यो व्यतिरिक्तः कश्चिदात्माख्यपदार्थोऽध्यक्षादिभिरवसीयते इति । तथा 'मणं च मणजीविया वदंति'त्ति न केवलं पञ्चैव स्कन्धान् मनश्च-मनस्कारो रूपादिज्ञानलक्षणानामुपादानकारणभूतो यमाश्रित्य परलोकोऽभ्युपगम्यते बौद्धैः, मन एव जीवो येषां मते ते मनोजीवाः त एव मनोजीविकाः, अलीकवादिता चैषां सर्वथाऽननुगामिनि मनोमात्ररूपे जीवे कल्पिते परलोकासिद्धेः, तदसिद्धिश्चावस्थितस्यैकस्यात्मनोऽसत्त्वान्मनोमात्रात्मनः क्षणान्तरस्यैवोत्पादात् अकृताभ्यागमादिदोषप्रसङ्गात् , कथञ्चिदनुगामिनि तु मनसि जीवात्वाभ्युपगमः सम्यक् एवेति । तथा-'वाउजीवो त्ति एवमाहंसु'त्ति वातः-उच्छासादिलक्षणो जीव इत्याहुरेके, सद्भावाभावयोर्जीवनमरणव्यपदेशात् नान्यः परलोकयाय्यात्माऽस्तीति, अलीकवादिता चैषां वायोर्जडत्वेन चैतन्यरूपजीवत्वायोगात् , तथा शरीरं सादि उत्पन्नत्वात् सनिधनं क्षयदर्शनात् ‘इह भवे एगे भवे'त्ति इह भव एव प्रत्यक्षजन्मैव एको भव:-एकं जन्म नान्यः परलोकोऽस्ति प्रमाणाविषयत्वात् , तस्य-शरीरस्य विविधैः प्रकारैः प्रकृष्टो नाशो विप्रणाशस्तस्मिन् सति सर्वनाश इति नात्मा शुभाशुभरूपं वा कर्म विशिष्टमवशिष्यते इति, एतत्-एवमुक्तप्रकारं 'जंपंति' जल्पन्ति, के ? मृषावादिनः, मृषावादिता चैषां जातिस्मरणादिना जीवपरलोकसिद्धेः । तथा किमन्यद्वदन्ति ? इत्याह-यस्मात् शरीरं सादिकमित्यादि तस्माद्दान व्रतपौषधानां-वितरणनियमपर्वोपवासानां, तथा तपो-अनशनादि, संयमः-पृथिव्यादिरक्षा, ब्रह्मचर्यं प्रतीतं, एतान्येव कल्याणं कल्याणहेतुत्वात् तदादिर्येषां ज्ञानश्रद्धादीनां तानि तथा तेषां नास्ति फलं-कर्मक्षयसुगतिगमनादिकम् , नापि चास्ति प्राणिवधालीकवचनमशुभफलसाधनतयेति गम्यम् , न चैव-नैव चौर्यकरणं परदारसेवनं वाऽस्त्यशुभफलसाधनतयैव, सह परिग्रहेण यद्वर्त्तते तत् सपरिग्रहं तच्च तत्पापकर्मकरणं च-पातकक्रियासेवनं तदपि नास्ति किञ्चित् क्रोधमानाद्यासेवनरूपम् , नरकादिका च जगतो विचित्रता स्वभावादेव न कर्मजनिता, तदुक्तम्
D:\ratan.pm5\5th proof