________________
श्रीविचाररत्नाकरे प्राच्यतटे दशमस्तरङ्गः ]
[ ११९
बितियं कुदंसणं असब्भाववादिणो पणवेंति मूढा - संभूओ अंडकाओ लोको, सयंभूणा सयं च निम्मिओ, एवं एतं अलियं पयावइणा इसरेण य कयंति केई, एवं विण्हुमयं कसिणमेव य जगति केई, एवमेके वदंति मोसं एको आया अकारको वेदको य सुकयस्स दुक्कयस्स करणाणि कारणाणि य सव्वहा सव्वहिं च णिच्चो य णिक्कियो निग्गुणो य, अणुवलेवओ (अन्नो य लेवओ) त्ति वि य एवमाहंसु असब्भावं । जं पि इहं किंचि जीवलोगे दीसइ सुकयं वा दुक्कयं वा । एयं जइच्छाए वा सभावेण वावि दइवतप्पभावओ वावि भवति । णत्थि त्थ किंचि कयकं तत्तं लक्खणविधाणं णियतीयकारिका, एवं केइ जंपंति इड्डिरससातगारवपरा । वृत्तिर्यथा—तथा अपरे-उक्तेभ्योऽन्ये नास्तिकवादिनो - लोकायतिकाः वामं प्रतीपं लोकं वदन्ति ये सतां लोकवस्तूनामसत्त्वस्य प्रतिपादनात्ते वामलोकवादिनो भणन्ति - प्ररूपयन्ति, किं ? शून्यमिति जगदिति गम्येत कथं ? आत्माद्यभावात्, तदेवाह - नास्ति जीव: तत्प्रसाधकप्रमाणाभावात्, स हि न प्रत्यक्षग्राह्यो ऽतीन्द्रियत्वेन तस्याभ्युपगत्वात्, नाप्यनुमानग्राह्यः प्रत्यक्षाप्रवृत्तावनुमानस्याप्यप्रवृत्तेः आगमानां च परस्परतो विरुद्धत्वेनाप्रमाणत्वादिति, असत्त्वादेवासौ न याति न गच्छति 'इहे 'ति मनुष्यापेक्षया मनुष्यलोके, परे वा परस्मिन् तदेपक्षयैव देवादिलोके, न च किञ्चिदपि स्पृशति बध्नाति पुण्यपापं - शुभाशुभं कर्म, नास्ति फलं सुकृतदुष्कृतानां पुण्यपापकर्मणां जीवासत्वेन तयोरप्यसत्वात्, तथा पञ्चमहाभौतिकं शरीरं भाषन्ते 'हे' इति निपातो वाक्यालङ्कारे वातयोगयुक्तं-प्राणवायुना सर्वक्रियासु प्रवर्त्तितमित्यर्थः । तत्र पञ्चमहाभौतिकमिति महान्ति च तानि लोकव्यापकत्वाद्भूतानि च सद्भूतवस्तूनि महाभूतानि तानि चामूनि— पृथिवी कठिनरूपा, आपो द्रव्यलक्षणाः, तेज उष्णरूपं, वायुश्चलनलक्षणः आकाशं शुषिरलक्षणमिति, एतन्मयमेव शरीरं नापरः शरीरवर्त्ती तन्निष्पादकोऽस्ति जीवः इति विवक्षा । तथाहि—भूतान्येव सन्ति प्रत्यक्षेण तेषामेव प्रतीयमानत्वात् तदितरस्य तु सर्वथाऽप्रतीयमानत्वात्, यत्तु चैतन्यं भूतेषूपलभ्यते तद्भूतेष्वेव कायाकारपरिणतेष्वभिव्यज्यते मद्याङ्गेषु समुदितेषु मदशक्तिवत्, तथा न भूतेभ्योऽतिरिक्तं चैतन्यं कार्यत्वान्मृदो घटवदिति, ततो भूतानामेव चैतन्याभिव्यक्तिर्जलस्य बुद्बुदाभिव्यक्तिवदिति, अलीकवादिता चैषामात्मनः सत्त्वात् सत्त्वं च प्रमाणोपपत्तेः प्रमाणं च सर्वजनप्रतीतं जातिस्मरणाद्यन्यथाऽनुपपत्तिलक्षणमनेकधा शास्त्रान्तरप्रसिद्धमिति । न च भूतधर्मश्चैतन्यं
D:\ratan.pm5\5th proof
"