________________
८४]
[श्रीविचाररत्नाकरः रुप्तः-कोपोदयाद्विमूढो, 'रुप लुप विमोहने' इति वचनात्, स्फुरितकोपलिङ्गो वा, यावत्करणादिदं दृश्यम्-'रुटे कुविए चंडिक्कए'त्ति तत्र रुष्टः-उदितक्रोधः, कुपितःप्रवृद्धकोपोदयः, चाण्डिकितः सज्जातचाण्डिक्यः-प्रकटितरौद्ररूप इत्यर्थः । 'मिसिमिसिमाणे'त्ति क्रोधाग्निना दीप्यमान इव एकाथिका वैते शब्दाः कोपप्रकर्षप्रतिपादनार्थमुक्ताः । 'ठाणं'ति पादन्यासविशेषलक्षणं, 'ठाइ' करोति 'आयतकण्णायतं'ति आकृष्टः सामान्यतः स एव कर्णायत आकर्णमाकृष्ट आयतकर्णायतस्तम्, 'एगाहच्चं'ति एका हत्या-हननं प्रहारो यत्र जीवितव्यरोपणे तदेकाहत्यं तद्यथा भवति–'कूडाहच्चं'ति कूटे इव-तथाविधपाषाणसम्पुटादौ कालविलम्बाभावसाधादाहत्या-हननं यत्र तत्कूटाहत्यम् । 'अत्थामो'त्ति अस्थामा सामान्यतः शक्तिविकलः, 'अबले'त्ति शरीरशक्तिवर्जितः, 'अवीरिए'त्ति मनःशक्तिवजितः 'अपुरिसक्कारपरकम्मे'त्ति व्यक्तं, नवरंपुरुषकार:-पुरुषाभिमानः स एव निष्पादितस्वप्रयोजनः पाक्रमः 'अधारणिज्जं'ति आत्मनो धारणं कर्तुमशक्यं 'इति कट्ट'त्ति इति कृत्वा, इति हेतोरित्यर्थः, 'तुरए णिगिण्हइ'ति अश्वान् गच्छतो निरुणद्धीत्यर्थः । ‘एगंतमंतंति एकान्तं-विजनं अंतंभूमिभागं । 'शीलाइं'ति फलानपेक्षाः प्रवृत्तयस्ताश्च प्रक्रमाच्छुभाः 'अणुवयाई'ति अहिंसादीनि 'गुणाई' ति गुणव्रतानि 'वेरमणाई'ति सामान्येनरागादिविरतयः, 'पच्चक्खाणपोसहोववासाइंति प्रत्याख्यानं-पौरुष्यादिविषयं, पौषधोपवास:-पर्वदीनोपवासः । 'गीयगंधवनिनाए'त्ति गीतं-गानमात्रं गन्धर्वं तदेव मुरजादिध्वनिसनाथं तल्लक्षणो निनाद:शब्दो गीतगन्धर्वनिनादः, 'कालमासे'त्ति कालकरणमासे मासस्योपलक्षणत्वात् कालदिवसे इत्याद्यपि द्रष्टव्यम् । 'कहिं गए कहिं उवण्णो'त्ति प्रश्नद्वये 'सोहम्मे कप्पे' इत्याद्येकमेवोत्तरं, गमनपूर्वकत्वादुत्पादस्योत्पादाभिधाने गमनं सामर्थ्यदवगतमेवेत्यभिप्रायादिति । आयु:कर्मदलिकनिर्जरणेन, 'भवक्खएणं'ति देवभवनिबन्धनदेवगत्यादिकर्मनिर्जरणेन, 'ठिइक्खएणं'ति आयुष्कादिकर्मणां स्थितिनिर्जरणेनेति इति भगवतीसप्तमशतकनवमोद्देशके ८०६ प्रतौ २३२।२३३ पत्रे ॥८॥
पुनरपि दण्डकग्रहणाक्षराणि लिख्यन्ते
१'णिग्गंथं च णं गाहावइकुलं जाव केइ दोहि पडिग्गहेहिंज्वणिमंतेज्जा, एगं आउसो ! अप्पणा परिभुंजाहि, एग थेराणं दलयाहि । से य तं पडिग्गहेज्जा।
१. भग./श.८/उ.६/४०६ सू. ।
D:\ratan.pm5\5th proof