________________
श्रीविचाररत्नाकरे प्राच्यतटे पञ्चमस्तरङ्गः]
[८३ उव्वट्टित्ता कहिं गच्छिहिति कहिं उववज्जिहिति ? गोयमा ! महाविदेहे वासे सिज्झिहिति जाव अंतं करेहिति''इति ! वृत्तिर्यथा-'जन्नं से बहुजणो अण्णमण्णस्स एवमाइक्खइ' इत्यत्रैकवचनप्रक्रमे 'जे ते एवमाहंसु' इत्यत्र यो बहुवचननिर्देशः, स व्यक्त्यपेक्षोऽवसेयः । 'अहिगयजीवाजीवे' इत्यत्र यावत्करणात् 'उवलद्धपुन्नपावे' इत्यादि दश्यम् । 'पडिलाभेमाणे'त्ति इदं च 'समणे निग्गंथे फासुएणं एसणिज्जेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकंबलरयओहरणेणं पीढफलगसेज्जासंथारएणं पडिलाभेमाणे विहरइ' इत्येवं दृश्यम् । 'चाउग्घंटे'ति घण्टाचतुष्टयोपेतं 'आसरहं'ति अश्ववहनीयरथं 'जुत्तामेव'त्ति युक्तमेव रमन ति गम्यम् । 'सज्झयं' इत्यत्र यावत्करणादिदं दृश्यम्-'सघंटे सपडागं सतोरणवरं सणंदिघोसं सखिखिणीहेमजालपेरंतपरिक्खित्तं' इति सकिङ्किणीकेन-क्षुद्रघण्टिकायुक्तेन हेमजालेन पर्यन्तेषु परिक्षिप्तो यः सः तथा तम्, 'हेमवयचित्ततेणिसकणगनिउत्तदारुयागं' हैमवतानिहिमवगिरिजातानि चित्राणि-विचित्राणि तैनिशानि-तिनिशाभिधानवृक्षसंबन्धीनि, स हि दृढो भवतीति तद्ग्रहणं, कनकनियुक्तानि-नियुक्तकनकानि दारूणि यत्र स तथा तम्, 'सुसंविद्धचक्कमंडलधुागं' सुष्ठ संविद्धे चक्रे यत्र, मण्डला च-वृत्ता च धूर्यत्र स तथा त मा, 'कालायससुकयनेमिजंतकम्म' कालायसेन-लोहविशेषेण सुष्ठ कृतं नेमे:चक्रमण्डलमालाया यन्त्रकर्मबन्धनक्रिया यत्र स तथा तम् । 'आइण्णवरतुरयसुसंपउतं' जात्यप्रधानाश्वैः सुष्ठ संप्रयुक्तमित्यर्थः, 'कुसलनरच्छेयसारहिसुसंपग्गहियं' कुसलनररूपो यश्छेकसारथिः-दक्षप्राजिता तेन सुष्ठ संप्रगृहीतो यः स तथा तम्, 'सरसयबत्तीसतोरणपरिमंडियं' शराणां शतं प्रत्येकं येषु ते शरशताः तैद्वात्रिंशता तूणैः-शरधिभिः परिमण्डितो यः स तथा तम्, 'सकंकडवडेंसगं' सहकण्टकैः-सकवचैरवतंसैश्च-शेखरकैः शिरस्त्राणभूतैः यः स तथा तम्, 'सचावसरपहरणावरणभरियजोहजुद्धसज्ज' सहचापशरैर्यानि प, हाणानि-खड्गादीनि आवरणानि-स्फुरकादीनि तेषां भृतः अत एव योधानां युद्धसज्जश्च-युद्धप्रगुणो यः सः तथा तम्, 'चाउग्घंटे आसरहं जुत्तामेव'त्ति वाचनान्तरे तु साक्षादेवेदं दृश्यते इति, 'अयमे यारूवं'ति प्राकृतत्वादिममेतद्रूपम् वक्ष्यमाणरूपं 'सरिसए'त्ति सदृशक:-समानः, 'सरित्तए'त्ति सदृशत्वक्, 'सरिव्वए'त्ति सहक्वयाः, 'सरिसभंडमत्तोवगरण'त्ति सदृशी भाण्डमात्रा-कोशप्रहरणादिरूपा, उपकरणं च कण्टकादिकं यस्य सः तथा तम्, 'पडिरहं'त्ति रथं प्रति 'आसुरुत्ते'त्ति आशु-शीघ्र
D:\ratan.pm5\5th proof