________________
श्रीविचाररत्नाकरे प्राच्यतटे ॥क्रमप्राप्ताः श्री पञ्चमाङ्गविचाराः प्रस्तूयन्ते ॥ त्रिजगत्प्रसरद्रुचिम॒दुर्नयनागोचरवस्तुशंसिनी। मम चित्तमलङ्करोतु सा जिनवाणी मणिदीपिकाधिका ॥१॥
केचिच्च लिखितं पुस्तकादिकं पादस्पर्शादिनाऽऽशातनाऽस्वीकारेणावगणयन्ति, तच्च तेषां संसारकारणम्, यतः श्रीभगवतमारभद्भिः श्रीगणधरपादैरपि नमस्कृतत्वेनास्य पूज्यतमत्वात् । तथा च सूत्रम्
'नमो बंभीए लिवीए'त्ति । [वृत्तिर्यथा-] लिपिः-पुस्तकादावक्षरविन्यासः, सा चाष्टादशप्रकारापि श्रीमनाभे यजनेन स्वसुतायाबाहामामिकाया दर्शिता ततो ब्राह्मीत्यभिधीयते । आह च"लेहं लिवीविहाणं जिणेण बंभीइ दाहिणकरेण''[ ] इत्यतो ब्राह्मीति स्वरूपविशेषणं लिपेरिति । नन्वधिकृतशास्त्रस्यैव मङ्गलत्वात् किं मङ्गलेन अनवस्थादिदोषप्राप्तेः ? सत्यं, किन्तु शिष्यमतिमङ्गलपरिग्रहार्थं मङ्गलोपादानम्। इति श्रीभगवतीप्रथमशतकप्रथमोद्देशके ॥१॥
इह च के चनाविवेकिनः कदाग्रहग्रहीता वदन्ति-यदेते ये के चन सम्यग्दृष्टिव्यतिरिक्तास्तपस्यन्ति-मुक्त्यर्थमपि कायकष्टमनुतिष्ठन्ति तेन तेषामकामनिव, न तु सकामा, तच्च विचार्यमाणमसारमाभासते, यतोऽकामानां-निर्जाद्यनभिलाषिणां सतां तृट् अकामतृट्इत्याद्यकामनिर्जास्वरूपमुक्तम्, किञ्च अत्राकामनिर्जावतां व्यतरेषूत्पत्तिरुक्ता, द्वितीयोद्देशके तु उत्पादाधिकारे तापसादीनां मिथ्यादृशामपिज्योतिष्क-ब्रह्मलोक) गै वे यकदौ श्रूयते ततोऽवसीयते तेषां सकामैव, तथैव चाकामनिर्जरावतां मनोलब्धिरहितानामसञ्जिनांव्यन्तरेवेवोत्पत्तिः ततश्च सधर्माभिलाषिणां शुभानुष्ठायिनां सकामैव, अन्येषामकामेति तत्त्वम् । तत्रच अकामनिर्जरास्वरूपसूत्रं अकामनिर्जरावतां गतिप्रतिपादकं लिख्यते
१. भग./श.१/उ.१/१ सू.।
D:\ratan.pm5\5th proof