________________
७०]
[श्रीविचाररत्नाकरः १ जे इमे जीवा गामागरणगरणिगमायहाणिखेडकब्बडमंडपदोणमुहपट्टणासमसन्नेिवेसेसु अकामतण्हाए अकामच्छुहाए अकामबंभचेरवासेणं अकामसीयायवदंसमसगअण्हाणगसेअजल्लमलपंकपरिदाहेणं अप्पतरो वा भुज्जतरो वा कालं अप्पाणं परिकिलेसंति।परिकिलेसित्ता कालमासे कालं किच्चा अन्नयरेसु वाणमंतरेसुदेवलोएसु देवत्ताए उववत्तारो भवंति'त्ति । वृत्तिर्य था-गामे त्यादि, ग्रामादिष्वधिक रणभूतेषु, तत्र ग्रामो-जनपदप्रायजनाश्रितस्थानविशेषः, आकरोलोहाद्युत्पत्तिस्थानं, नकरं-कररहितं, निगमो-वणिग्जनप्रधानं स्थानं राजधानी-यत्रराजा स्वयं वसति, खेटं-धूलिप्रकारं, कर्बट-कुनगरं, मडम्बं-सर्वतो दूरवर्तिसन्निवेशान्तरं, द्रोणमुखं-जलपथस्थलपथोपेतं, पत्तनं-विविधदेशागतपण्यस्थानं, तच्च द्विधा जलपत्तनं स्थलपत्तनं चेति रत्नभूमिरित्यन्ये, आश्रमः-तापसादिस्थानं, सन्निवेशो-घोषादिः, एषां द्वन्दस्ततस्तेषु, अथवा ग्रामादयो ये संनिवेशास्ते तथा तेषु 'अकामतण्हाए'त्ति अकामानांनिर्जराधनभिलाषिणां सतां तृष्णा-तृड् अकामतृष्णा तया एवमकामक्षुधा 'अकामबंभचेरवासेणं'ति अकामानां-निर्जाद्यनभिलाषिणां सतां, अकामो वा-निरभिप्रायो ब्रह्मचर्येण-स्त्र्यादिपरीभोगाभावमात्रलक्षणेन वासो रात्रौ शयनं अकामब्रह्मचर्यवासोऽतस्तेन 'अकामअण्हाणगसेयजल्लमलपंकपरिदाहेणं' ति अकामा ये अस्नानकादयस्तेभ्यो यः परिदाहः स तथा तेन तत्र स्वेदः-प्रस्वेद: याति-लगति चेति जल्लो-रजोमात्रं, मल:-कठिनीभूतं रज एव, पङ्को-मल एव स्वेदेनाद्रीभूत इति, 'अप्पतरो वा भुज्जतरो वा कालं'ति प्राकृतत्वेन विभिक्तिपरिणामादल्पतरं वा भूयस्तरं वा बहुतरंकालं यावत् वाशब्दौ देवत्वं प्रत्यल्पेतरकालयो: समताभिधानार्थों, के वलं देवत्वे सामान्यतः सत्यपि अल्पतरकालमकामनिर्जरावतामविशिष्टं तत् स्यात् इतरेषां तु विशिष्टमिति । 'अप्पाणं परिकिलेसंति'त्ति विबाधयन्ति। 'कालमासे'त्ति कालो-मरणं तस्य मासः प्रक्रमादवसरः कालमासस्तत्र 'कालं किच्च' त्ति कालं कृत्वा वाणमंतरेसुत्ति वनान्तरेषु वनविशेषेषु भवा अवर्णागमकरणद्वानमन्ता अन्येत्वाहुः-वनेषु भवा वानास्ते च ते व्यन्तराश्चेति वानव्यन्तस्तेषामे ते वानमन्ता वानव्यन्तरा वा अतस्तेषु देवलोकेषु देवाश्रयेषु 'देवताए उववत्तारो भवंति' त्ति ये इमे इत्यत्र यच्छब्दोपादानात्ते देवतयोपपत्तारो भवन्तीति द्रष्टव्यम्। 'तेसिं'ति ये देवलोकेष्वकामनिर्जीवन्तो देवतयोत्पद्यन्ते तेषामिति इतिश्रीभगवतीप्रथमशतकप्रथमोद्देशके ८९ प्रतौ ३५ पत्रे ॥२॥
१. भग./श.१/उ.१/२५ सू. ।
D:\ratan.pm5\5th proof