________________
६८]
[श्रीविचाररत्नाकरः सूत्रार्थोभयैर्विराध्येत्यर्थः । अथवा द्रव्यक्षेत्रकालभावापेक्षमागमोक्तानुष्ठानमेवाज्ञा तया तदकरणेनेत्यर्थः। 'इच्चेइय'मित्यादि गतार्थमेव, नवरं 'परित्ता जीवा' इति । सख्ये या जीवा वर्तमानविशिष्टविाधकमनुष्यजीवानां सह ये यत्वात् 'अणुपरियट्टंति'त्ति अनुपावर्त्तन्ते भ्रमन्तीत्यर्थः 'इच्चेइय'मित्यादि इदमपि भावितार्थमेव नवरं 'अणुपरियट्टिस्संति'त्ति अनुपरावतिष्यन्ति-पर्यटिष्यन्तीत्यर्थः । ‘इच्चेइयमि'त्यादि कण्ठ्यं नवरं 'विईवइंसु'त्ति व्यतिव्रजितवन्त:-चतुर्गतिकसंसारोल्लङ्घनेन मुक्तिमवाप्ता इत्यर्थः । एवं प्रत्युत्पन्नेऽपि, नवरं अयं विशेषः । 'विईवइंति'त्ति, व्यतिव्रजन्ति व्यतिक्रामन्तीत्यर्थः । अनागतेऽप्येवं, नवरं 'वीइवइस्संति'त्ति व्यतिव्रजिष्यन्ति व्यतिक्रमिष्यन्तीत्यर्थः ।इति समवायाङ्गे ८५ प्रतौ ७० पत्रे ॥६॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवद्धितवृषरसालशालातिशालिशील
श्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे प्राच्यतटे विशेषसमुच्चयापरनाम्नि
श्रीसमवायाङ्गविचारनामा चतुर्थस्तरङ्गः ॥४॥
D:\ratan.pm5\5th proof