________________
६०]
[श्रीविचाररत्नाकरः जन्मान्तरे सुखितो भवत्विति वासनातोऽन्यस्य वा यद्दानं तत्कारुण्यदानं,कारुण्यजन्यत्वाद्वा दानमपिकारुण्यममुपचारादिति ।। लज्जया-हिया दानं यतलज्जादानमुयते। उक्तं च__ "अभ्यर्थितः परेण तु, यद्दानं जनसमूहमध्यगतः।
परचित्तरक्षणार्थं, लज्जायास्तद्भवेद्दानम्" ॥१॥[ ]इति ५। 'गारवेणं च' त्ति गौरवेण-गर्वेण यद्दीयते तद् गौरवदानमिति । उक्तं च
"नटनर्त्तमुष्टिकेभ्यो, दानं संबन्धिबन्धुमित्रेभ्यः।
यद्दीयते यशोऽर्थं , गर्वेण तु तद्भवेद्दानम्" ॥१॥[ ]इति ६। अधर्मपोषकं दानमधर्मदानम्, अधर्मकारणत्वाद्वाऽधर्म एवेति । उक्तं च
"हिंसानृतचौर्योद्यतपरदारपरिग्रहप्रसक्तेभ्यः।
यद्दीयते हि दानं, तज्जानीयादधर्माय" ॥१॥[ ]इति ७। धर्मकारणं यत्तद्धर्मदानं धर्मे एव वा । उक्तं च
"सममणितृणमुक्तेभ्यो, यद्दानं दीयते सुपात्रेभ्यः ।
अक्षयमतुलमनन्तं , तद्दानं भवति धर्माय ॥१॥[ ]इति ८। 'काहीइय'त्तिकरिष्यतिकञ्चनोपकारंममायमितिबुद्ध्यायद्दानंतकरिष्यतिदान्मुच्यते ९, तथाकृतंममानेनैतत्प्रयोजनमितिप्रत्युपकारार्थंयद्दानंतकृतमितिदानमध्यते।उक्तंच
"शतशः कृतोपकारो, दत्तं च सहस्रशो ममानेन।
अहमपि ददामि किञ्चित् प्रत्युपकाराय तद्दानम्" ॥१॥[ ]इति १०। इति श्रीस्थानाङ्गदशमस्थानके ४४० प्रतौ ४११ पत्रे ॥१९॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवद्धितवृषरसालशालातिशालिशील
श्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते
श्रीविचाररत्नाकरे प्राच्यतटे विशेषसमुच्चयापरनाम्नि श्रीस्थानाङ्गकियद्विचारसमुच्चयनामा तृतीयस्तरङ्गः ॥३॥
D:\ratan.pm5\5th proof